2-3-72 तुल्यार्थैः अतुलोपमाभ्यां तृतीया अन्यतरस्याम् अनभिहिते षष्ठी शेषे
तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्ठी च, तुलोपमाशब्दौ वर्जयित्वा। शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव भवति। तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य। सदृशो देवदत्तेन, सदृशो देवदत्तस्य। अतुलोपमाभ्यामिति किम्? तुला देवदत्तस्य नास्ति। उपमा कृष्णस्य न विद्यते। वेति वर्तमानेऽन्यतरस्यांग्रहणमुत्तरसूत्रे तस्य चकारेणानुकर्षणार्थम्। इतरथा हि तृतीयानुकृष्येत॥
तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥
<<तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्>> - अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठआं नित्यं प्राप्तायां तृतीयाविकल्पोयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन 'गौरिव गवय' इत्यादौ नेत्याहुः । अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये ।
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥ शेषविषये विधानादिति। शेषैत्यधिक्रियत इति भावः। बहुवचननिर्देशादेव स्वरूपग्रहणाभावे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षा ये तुल्यानाहुस्तत्परिग्रहार्थम्। तेन द्योतका इवादयो निवर्तिता भवन्ति - गौरिव गवयः, यथा गौस्तथा गवय इति। तुला देवदतस्येति। तुलोपमाशब्दौ कर्मसाधनौ तुल्यार्थौ तत्र प्रतिषेध्या तृतीया, षष्ठी तु भवत्येव। इह'स्फुटोपमं भूतिसितेन शम्भुना' इति श्म्भुना स्फुटोपमा यस्येत्युपमाशब्देनापि योगे करणे तृतीया भवति, भावसाधनत्वातस्य, यथा - उपमीयतेऽनेनेत्यादौ; इतरथा हि तृतीयानुकृष्येतेति तस्यानन्तरसूत्रे श्रुतत्वाद् अन्यतरस्यांग्रहणे तु सति तस्य प्रयोजनान्तराभावातदेव चकारेणानुकृष्यते॥