कृत्यानां कर्तरि वा

2-3-71 कृत्यानां कर्तरि वा अनभिहिते षष्ठी शेषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<कर्तृकर्मणोः कृति>> २.३.६५ इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते। कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि। भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः। कर्तरीति किम्? गेयो माणवकः साम्नाम्॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः॥ क्रष्टव्या ग्रामं शाखा देवदत्तेन। नेतव्या ग्राममजा देवदत्तेन॥

Siddhanta Kaumudi

Up

षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय <{SK2894}> इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कृत्यानां कर्तरि वा>> - कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे — षष्ठी वा स्यादिति । 'कृत्या' इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । कर्तृकर्मणोः॑ इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षेवृ सेवायाम्'ऋहलोण्र्य॑दिति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुरनभिहितत्वात्षष्ठींतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्यअचो य॑दिति यत्प्रत्ययाभिहितत्वात्कथं षष्ठीप्रसक्तिरित्यत आह — भव्येति । ननुनेतव्या व्रजं गावः कृष्णेने॑त्यत्र कृत्यसंज्ञकतव्यप्रत्यययोगात् 'उभयप्राप्तौ' इति बाधित्वा कृष्णात्षष्ठीविकल्पः स्यात्, व्रज्रात्तुकर्तृकर्मणोः कृती॑ति नित्यं स्यादित्यत आह-अत्र योगो विभज्यत इति । विभागप्रकारं दर्शयति — कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गुणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति, नेता अआस्य रुआउघ्नस्य रुआउघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरेक्ते चरितार्थस्यदोग्धव्या गाः पयः कृष्णेने॑त्यादौ गुणकर्मण उक्तत्वेन प्रधानकर्मणि चरितार्थेनान#एन परत्वाद्बाधात् । ततः कर्तरि वेति ।कृत्याना॑मिति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक्प्रेणतव्यमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषयेमया मम वा सेव्यो हरि॑रित्यादाविदमवतिष्ठते ।

Padamanjari

Up

कृत्यानां कर्तरि वा॥ कर्तरोति किमिति।'तयोरेव कृत्यक्तखलर्थाः' इति वचनादकर्मकेभ्यो भावे सकर्मकेभ्यश्च कर्मणि कृत्यानां विधानात्कर्तुरेव तैरनभिधानं सम्भवतीति कर्तृकर्मणोर्द्वयोरधिकारेऽपि कर्तयेव षष्ठी भविष्यतीति प्रश्नः। गेय इति।'भव्यगेय' इत्यादिना कर्तरि यत्प्रत्ययः। साम्नामिति। कर्मणि नित्यमेव षष्ठी भवति। उभयप्राप्तौ कृत्य इति। उभयो कर्तृकर्मणोः प्राप्तिर्यस्मिन् कृत्ये तत्र द्वयोरपि कर्तृकर्मणोः षष्ठी न भवतीत्यर्थः। क्रष्टव्येति। कृषेद्विकर्मकत्वात्प्रधाने कर्मणि कृत्यप्रत्ययः, न त्वप्रधान इति तस्मिन् कर्मणि कर्तरि च प्राप्ता षष्ठी न भवति। एतच्चयोगविभागाल्लभ्यते, कथम्? कृत्यानामित्येको योगः, अत्रोभयप्राप्तौ नेति च वर्तते, युगपदुभयप्राप्तीनां कृत्यानां प्रयोगे षष्ठी न भवतीत्यर्थः; ततः कर्तरि वा, अत्र षष्ठीत्येवानुवर्तते, अन्यत्सर्वं निवृतम्॥