2-3-68 अधिकरणवाचिनः च अनभिहिते षष्ठी शेषे क्तस्य
<<क्तोऽधिकरणे च०>> ३.४.७६ इति वक्ष्यति। तस्य प्रयोगे षष्ठी विभक्तिर्भवति। अयमपि प्रतिषेधापवादो योगः। इदमेषामासितम्। इदमेषां शयितम्। इदमहेः सृप्तम्। इदं वनकपेर्यातम्। इदमेषां भुक्तम्। इदमेषामशितम्। द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत्। नेताश्वस्य ग्रामस्य चैत्रः। अन्ये प्रधाने कर्मण्याहुः। तदा, नेताश्वस्य ग्रामं चैत्रः॥
क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥
<<अधिकरणवाचिनश्च>> - अधिकरणवाचिनश्च । शेषपूरणेन सूत्रं व्याचष्टे — क्तस्य योगे षष्ठीति । शयितमिति । शेतेऽस्मिन्निति शयितम् । 'शीङ् स्वप्ने'क्तोऽधिकरणे च ध्रौब्ये॑ति क्तप्रत्ययः । तत्र एषामिति कर्तरि षष्ठी ।न लोके॑निषेधापवादः । भुजेस्तु प्रत्यवसानार्थकत्वादधिकरणे क्तप्रत्ययः ।इदमेषां भुक्तमोदनस्ये॑त्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी । 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेनकर्तृकर्मणोः कृती॑ति षष्ठआ एव तन्नियमाभ्युपगमात् ।
अधिकरणवाचिनश्च॥ तस्य च प्रयोगे षष्ठी विभक्तिर्भवतीति। यथासम्भवं यत्र कर्तैव सम्भवति तत्र कर्तरि - इदमेषामासितमिति, सकर्मकेभ्यस्त्वधिकरणे क्ते विहिते द्वयोरपि कर्तृकर्मणोरनभिहितन्वाद् द्वयोरपि षष्ठी भवति - इदमेषां भुक्तमोदनस्येति। उभयप्राप्तौ कर्मणीत्ययं तु नियमः'कर्तृकर्मणोः कृति' इत्यस्या एव प्राप्तेः। वाचिग्रहणं किम्? अधिकरणऽ इत्युच्यमाने क्तोपलक्षणं विज्ञायेत, ततश्चार्थान्तरवृतेरपि ध्रौव्यादेरुत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्; वाचिग्रहणे तु सति यदाधिकरणं कर्ति तदैव षष्ठी भवति, पदार्थान्तरे तदा कर्तरि तृतीया कर्मणि द्वितीया भवति - इहैभिरासितं ग्रामे गत इति; इह गत्यर्थे चातुश्शब्द्यं भवति - इदमेषां गतमित्यधिकरणे, इदमेते गता इति कर्तरि, इहैभिर्गतमिति नपुंसके भावे, कर्तृविवक्षायां इदमेषाङ्गतमिति तत्रैव शेषविवक्षायाम्॥