2-3-67 क्तस्य च वर्तमाने अनभिहिते षष्ठी शेषे
<<न लोकाव्ययनिष्ठा०>> २.३.६९ इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते। क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। क्तस्येति किम्? ओदनं पचमानः। वर्तमान इति किम्? ग्रामं गतः॥ नपुंसके भाव उपसंख्यानम्॥ छात्रस्य हसितम्। मयूरस्य नृत्तम्। कोकिलस्य व्याहृतम्॥ शेषविज्ञानात् सिद्धम्॥ तथा च कर्तृविवक्षायां तृतीयापि भवति, छात्रेण हसितमिति॥
वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक <{SK627}> इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥
<<क्तस्य च वर्तमाने>> - क्तस्य च वर्तमाने । ननुकर्तृकर्मणोः कृती॑त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्चमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः ।पूजितो यः सुरासुरैः॑ 'त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः ।
क्तस्य च वर्तमाने॥ राज्ञां मत इति।'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः। शेषविज्ञानादिति। उपसंख्यानं प्रत्याचष्टे, सदप्यत्र छात्रस्य कर्तृत्वमविवक्षायां तिरोधीयते, संबन्धित्वमात्रमेव तु विवक्षिष्यते, ततश्च न माषाणामश्नीयदितिवत्सिद्धा षष्ठीत्यर्थः। तथा चेति। उपसंख्याने त्वेतन्न सिद्ध्यतीति भावः॥