उभयप्राप्तौ कर्मणि

2-3-66 उभयप्राप्तौ कर्मणि अनभिहिते षष्ठी शेषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण षष्ठी प्राप्ता नियम्यते। उभयप्राप्ताविति बहुव्रीहिः। उभयोः प्राप्तिर्यस्मिन् कृति सोऽयमुभयप्राप्तिः, तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते म ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं यज्ञदत्तेन। बहुव्रीहिविज्ञानादिह नियमो न भवति — आश्चर्यमिदम्, ओदनस्य नाम पाको ब्राह्मणानां च प्रादुर्भाव इति॥ अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम्॥ भेदिका देवदत्तस्य काष्ठानाम्। चिकीर्षा देवदत्तस्य कटस्य॥ शेषे विभाषा॥ अकाकारयोः स्त्रीप्रत्यययोर्ग्रहणात् तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते। विचित्रा हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा। केचिदविशेषेणैव विभाषामिच्छन्ति। शब्दानामनुशासनमाचार्येण, आचार्यस्येति वा॥

Siddhanta Kaumudi

Up

उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥<!स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः !> (वार्तिकम्) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ।<!शेषे विभाषा !> (वार्तिकम्) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उभयप्राप्तौ कर्मणि>> - उभयप्राप्तौ कर्मणि । पूर्वसूत्रात्कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाहः-उभयोः प्राप्तिर्यस्मिन्कृतीति । एकस्मिन्कृति उभयोः=कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृको गोकर्मको यो दोहः सोऽद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि बहुव्रीह्राश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभाद्भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति ।स्त्रीप्रत्यययोरिति । वार्तिकमेतत् ।स्त्रियां क्ति॑न्नित्यधिकारविहितयोरकाऽकारप्रत्यययोः कृतोः प्रयोगे 'कर्मण्येवे' त्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप्,प्रत्ययस्थादि॑तीत्त्वम् । विभित्सेति । भिदेः सन्नान्तात्अ प्रत्यया॑दित्यकारप्रत्ययष्टाप् । रुद्द्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाऽकारप्रत्ययव्यतिरिक्तप्रत्ययोगे 'उभयप्राप्तौ' इति नियमो विकल्प्य इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तृकं शब्दक्रमकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् ।

Padamanjari

Up

उभयप्राप्तौ कर्मणि॥ उभयशब्देन प्रकृतत्वात्कर्तृ कर्मणी संबध्येते। उभयप्राप्ताविति बहुव्रीहिरिति। न तत्पुरुषः। उभयोः कर्तृकर्मणोः षष्ठीप्राप्तौ सत्यामिति। अत्र प्रयोजनं वक्ष्यति - कर्मण्येवेति। विपरीतस्तु नियमो न भवति - उभयप्राप्तावेव कर्मणीति। एवं हि पूर्वसूत्रे कर्मग्रहणमनर्थकं स्याद्, अनेनैव विशिष्टविधानमाश्रयणीयं भावः। आश्चर्य इति। सकर्मकेभ्यो भावे कृति विहिते कर्मणि कर्तरि च षष्ठी प्राप्ता नियमेन कर्तुरपनीयते। प्राप्तिग्रहणाच्च प्राप्तिमात्रे नियम इति कर्तृकर्मणोः प्रयोगेऽपि कर्तरि तृतीया भवति, ठन्तर्धौ येनादर्शनमिच्छतिऽ इति अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। अत्र च ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इति कर्तृकर्मणोरिति प्राप्तिर्नियम्यते, शेषषष्ठी तु कर्मर्यति भवत्येव। नियमस्य प्रयोजनं पक्षे तृतीयाश्रवणम्। कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव। तस्याश्च'कर्मणि च' इति निषेधाभावात्समासेऽपि भवति। निषेधस्य तु प्रयोजनं कृत्स्वरो मा भूदिति। एतदपि सूचितम् - पूर्वेण षष्ठी प्राप्तौ नियम्यत इति। आश्चर्यमिदमित्येतावदेकं वाक्यम्, किं तदित्याह - ओदनरयेति। अत्र पाके ओदनस्य कर्मत्वम्, प्रादुर्भावे च ब्राह्मणानां कर्तृत्वमित्यनेकत्वात्कृदुभयप्राप्तिर्भवति भेदिकेति। पर्यायादिषु ण्वुच्। चिकीर्षेति। ठ प्रत्ययात्ऽ। अत्रोभयत्रापि कर्तरि तृतीया न भवति। षष्ठी तु शेषविवक्षयापि सिद्ध्यति। समासोऽप्यत्र भवति - धर्मजिज्ञासा देवदतस्य, शिष्यस्याचार्यशुश्रूषेति'शेषे विभाषा' इति। तत्र यदा नियमेन कर्तरि तृतीया तदा'कर्मणि च' इति निषेधात्पाणिनिना सूत्रकृतिः, आचार्येण शब्दानुशासनमित्यसाधुः समासः; पाणिनेः सूत्रकृतिः, आचार्यस्य शब्दानुशासनमिति तु साधुः॥