2-3-63 यजेः च करणे अनभिहिते षष्ठी शेषे बहुलं छन्दसि
यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति। घृतस्य यजते (तु० — श०ब्रा० ४.४.२.४)। घृतेन यजते। सौम्यस्य यजते (तु० — श०ब्रा० ४.४.२.५)। सोमेन यजते॥
इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥