2-3-62 चतुर्थ्यर्थे बहुलं छन्दसि अनभिहिते षष्ठी शेषे
छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति बहुलम्। पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सः (मा०सं० २४.३५)। पुरुषमृगश्चन्द्रमसे। गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नाम् (मा०सं० २४.३५)। ते वनस्पतिभ्यः। बहुलग्रहणं किम्? कृष्णो॒ रात्र्यै॑ (मा०सं० २४.३६)। हि॒मव॑ते ह॒स्ती (मा०सं० २४.३०)॥ षष्ठ्यर्थे चतुर्थी वक्तव्या॥ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वो जाय॑ते॒। या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न्। या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी। याऽङ्क्ते तस्यै॑ का॒णः। या॑ऽभ्य॒ङ्क्ते तस्य॑ै दु॒श्चर्मा॒। या के॒शान् प्र॑लि॒खते॒ तस्यै॑ खल॒तिः (तै०सं० २.५.१.७)। अ॒हल्यायै जार (श०ब्रा० ३.३.४.१८)॥
षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ।<!षष्ठ्यर्थे चतुर्थीति वाच्यम् !> (वार्तिकम्) ॥ या खर्वेण पिबति तस्यै खर्वः ॥
चतुर्थ्यर्थे बहुलं च्छन्दसि॥ या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। ततर्हि वक्तव्यम् - षष्ठ।ल्र्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्तते - अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते॥