2-3-61 प्रेष्यब्रुवोः ःअविषोः देवता सम्प्रदाने अनभिहिते षष्ठी शेषे कर्मणि
प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्मध्यमपुरुषस्यैकवचनम्, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते। प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देवतासंप्रदाने सति। अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य (का०श्रौ० ६.६.२४)। अग्नये छागस्य हविषो वपायै मेदसोऽनुब्रू३हि (का०श्रौ० ६.६.२२)। प्रेष्यब्रुवोरिति किम्? अग्नये छागं हविर्वपां मेदो जुहुधि। हविष इति किम्? अग्नये गोमयानि पे्रष्य। देवतासंप्रदान इति किम्? माणवकाय पुरोडाशं प्रेष्य॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः॥ इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य (का०श्रौ० ६.६.२५)॥
देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ इष्यतेद्êअवादिकस्येति। ठिषु गतौऽ इत्यस्य श्यना निर्देश इच्छतीष्णात्योरिच्छाभीक्ष्ण्यार्थयोर्निवृत्यर्थः। तद्विषय एवेति। लोण्मध्यमैकवचनान्तः। देवतासंप्रदान इति। देवता संप्रदानं यस्यार्थस्य तत्र वर्तमानयोः कर्मणि कारक इत्यन्वयः। हविषः हविर्विशेषवाचिन इत्यर्थः। प्रे3ष्येति।'ब्रूहिप्रेष्य' इत्यादिना प्लुतः। अग्यये गोमयानि प्रेष्येति। गोमयं हविष्ट्वेन क्वापि न चोदितम्। हविषः प्रस्थितस्येति। प्रस्थितशब्देन यद्विशेष्यते तस्येत्यर्थः। इदं च भाषायामपि भवति; उतरत्र च्छन्दोग्रहणात्॥