द्वितीया ब्राह्मणे

2-3-60 द्वितीया ब्राह्मणे अनभिहिते षष्ठी शेषे कर्मणि दिवः तदर्थस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति। गा॑म॒स्य॒ त॑द॑हः॒ स॒भा॑यां॒ दीव्येयुः॒ (मै०सं० १.६.११)। अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाषयापि सिध्यति॥

Siddhanta Kaumudi

Up

ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्,'स्वमोर्नपुंसकात्' इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति।'दिवस्तदर्थस्य' इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह - सोपसर्गस्येत्यादि॥