2-3-57 व्यवहृपणोः समर्थयोः अनभिहिते षष्ठी शेषे कर्मणि
व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर्भवति। द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः। शतस्य व्यवहरति। सहस्रस्य व्यवहरति। शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्माद् न भवति? स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते। समर्थयोरिति किम्? शलाकां व्यवहरति। परिगणयतीत्यर्थः। ब्राह्मणान् पणायति। स्तौतीत्यर्थः। शेष इत्येव — शतं पणते॥
शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥
<<व्यवहृपणोः समर्थयोः>> - समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह — गणनेत्यर्थ इति । वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राआहृणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवाहारार्थ इत्याह — स्तुतिरित्यर्थ इति । वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।
व्यवहृपणोः समर्थयोः॥ समर्थयोरिति। संशब्दो वृतौ समानार्थः, समशब्दस्य वा निपातनात्पररुपमिति भावः। संबद्धार्थयोरिति तु न विज्ञायते, व्याख्यानात्। संभवति हि व्यवहृपणोर्हेतुहेतुमद्भावः संबन्धः। शतस्य व्यवहरतीति। शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः। शलाकां व्यवहरतिगणयतीत्यर्थः॥