2-3-56 जासिनिप्रहणनाटक्राथपिषां हिंसायाम् अनभिहिते षष्ठी शेषे कर्मणि
जासि निप्रहण नाट क्राथ पिष् इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर्भवति। <<जसु हिंसायाम्>> <<जसु ताडने>> इति च चुरादौ पठ्यते, तस्येदं ग्रहणम्, न दैवादिकस्य <<जसु मोक्षणे>> इत्यस्य। चौरस्योज्जासयति। वृषलस्योज्जासयति। निप्रहण इति सङ्घातविगृहीतविपर्यस्तस्य ग्रहणम्। चौरस्य निप्रहन्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति। वृषलस्योन्नाटयति। चौरस्योत्क्राथयति। वृषलस्य क्राथयति। निपातनाद् वृद्धिः। अयं हि घटादौ पठ्यते, <<श्रथ क्नथ क्रथ क्लथ हिंसार्थाः>> इति। तत्र <<घटादयो मितः>> इति मित्संज्ञायां <<मितां ह्रस्वः>> ६.४.९२ इति ह्रस्वत्वं स्यात्। चौरस्य पिनष्टि। वृषलस्य पिनष्टि। हिंसायामिति किम्? धानाः पिनष्टि। शेष इत्येव — चौरमुज्जासयति। एषामिति किम्? चौरं हिनस्ति। निप्रहण इति किम्? चौरं विहन्ति॥
हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥
<<जासिनिप्रहणनाटक्राथपिषां हिंसायाम्>> - जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह — हिंसार्थानामित्यादिना । इदमपि समासाऽभावार्थमेव । चौरस्योज्जासनमिति । 'जसु ताडने' 'जसु हिसायाम्' इति चुरादौ । वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः । 'जसु मोक्षणे' इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च । निप्राविति । निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः । तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः । समस्तावुदाहरति — चौरस्य निप्रहणनमिति । वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः ।हन्तेरत्पूर्वस्ये॑ति णत्वम् । विपर्यस्तावुदाहरति — प्रणिहननमिति ।नेर्गदे॑ति णत्वम् । हन्तेर्नकारस्य तु न णत्वम्, 'अट्कुप्वाङ्' इति नियमात्, नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति — निहननं प्रहणमनं वेति । निमित्ताऽभावान्निहननमित्यत्र 'बन्तेरत्पूर्वस्य' इति णत्वं न । चुरादिरिति । 'नट नृत्तौ' इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः । चौरस्योन्नाटनमिति । उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । 'क्रथ हिंसायाम्' इति घटादौ । 'घटादयो मितः' इति तस्य मित्त्वेऽपि 'मितां ह्रस्वः' इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिसेत्यर्थः । व्यपह्मपणोः । शेषपूरणेन सूत्रं व्याचष्टे — शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननुपण व्यवहारे स्तुतौ चे॑ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह — द्यते इति । द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः ।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ न दैवादिकस्येति।'जासि' इति निर्देशाद्'हिसायाम्' इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः,'हन्तेरत्पूर्वस्य' इति णत्वम्। प्रणिहन्तीति।'नेर्गद' इत्यादिना णत्वम्।'नट अवस्यन्दने' चुरादिः,'नट नृतौ' इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु'घटादयः षितः' इत्यातिदेशिकोऽङ्यथा स्यात्,'चिण्णमुलोर्दीर्घो' न्यतरस्याम्ऽ इति दीर्घश्च यथा स्यादित्येवमर्थः॥