आशिषि नाथः

2-3-55 आशिषि नाथः अनभिहिते षष्ठी शेषे कर्मणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु>> पठ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति। सर्पिषो नाथते। मधुनो नाथते। आशिषीति किम्? माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व॥

Siddhanta Kaumudi

Up

आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आशिषि नाथः>> - आशिषि नाथः । शेषे, कर्मणि इति चानुवर्तते । तदाह — आशीरर्थस्येति । इदमपि समासाऽभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीर्नाथतेरर्थः । वस्तुतःकर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः ।

Padamanjari

Up

आशिषि नाथः॥ नाथत इति। ठाशिषि नाथःऽ इत्युपसंख्यानादात्मनेपदम्, तच्चानुदातेत्वादेव सिद्धे नियमार्थम् - आशिष्येव नाथ इति, तेन प्रत्युदाहरणे परस्मैपदम्॥