रुजार्थानां भाववचनानामज्वरेः

2-3-54 रुजार्थानां भाववचनानाम् अज्वरेः अनभिहिते षष्ठी शेषे कर्मणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति। चौरस्य रुजति रोगः। चौरस्यामयत्यामयः। रुजार्थानामिति किम्?

एति जीवन्तमानन्दो नरं वर्षशतादपि।

जीव पुत्रक मा मैवं तपः साहसमाचर॥

भाववचनानामिति किम्? नदी कूलानि रुजति। अज्वरेरिति किम्? चौरं ज्वरयति ज्वरः॥ अज्वरिसंताप्योरिति वक्तव्यम्॥ चौरं संतापयति तापः। शेष इत्येव — चौरं रुजति रोगः॥

Siddhanta Kaumudi

Up

भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ।<!अज्वरिसंताप्योरिति वाच्यम् !> (वार्तिकम्) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<रुजार्थानां भाववचनानामज्वरेः>> - रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्व्याचष्टे — भावकर्तृकाणामिति । वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थौ न विवक्षितः । भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह — कर्मणि शेष इति । इदमपि समासाऽभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजायां कर्ता । तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी ।रोगस्य चोररुजे॑ति समासो न भवतीति बोध्यम् । अज्वरिसंताप्योरिति ।रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना॑मिति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठआ समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं 'रोगस्य चौरसंताप' इत्यत्रापि बोध्यम् । अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्याप्त दर्शयितुमाह — रोगकर्तृकमिति । रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत् । एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः ।

Padamanjari

Up

रुजार्थानां भाववचनानामज्वरे॥ रुजो भङ्गेऽभिदादिपाठादस्मादेव निपातनाद्वाऽङ्। भाववचनानामिति। नायमर्थो भाववाचिनामिति, धातूनां भाववाचित्वाव्यभिचारात्। किं तर्हि? भावशब्देन घञादिवाच्यः सिद्धरूपो भाव उच्यते। वचन इति कर्तरि ल्युट्। तत्र प्रकृत्यर्थो न विवक्ष्यते, न हि रुजार्थानां भावो वक्ता प्रतिपादयितोच्चारयिता वोपपद्दाते। तस्मात्प्रत्ययार्थ एव कर्ता विवक्षितः - भावो वचनः कर्ता येषामित्यर्थः, तदाह - भावकर्तृकाणामिति। चौरस्यामयतीति। ठम रोगेऽ चुरादिः'नान्ये मितो' हेतौऽ इति चुरादौ वचनात्'जनीजृष्क्नसुरञ्जो' मन्ताश्चऽ इति मित्वं न भवति।'ज्ञप मिच्च' इत्यारभ्य'नान्ये मितो' हेतौऽ इतः प्राग्ये पठितास्त एव चुरादिषु मितो भवन्ति, नान्य इत्यर्थः। आमय इति आङ्पूर्वस्य मीनातेरेच्,'मीनातिमिनोति' इत्यात्वस्य'निमिमीलीयां खलचोः' इति प्रतिषेधः। नदीकूलं रुजतीति। अत्र नदी कर्त्री, न भावः। ननु रुजाशब्दो व्याधौ रूढ इति नात्र प्रसङ्गः? एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम् - श्लेष्मा पुरुषं रुजतीति, व्याधिना कासादिना ग्राहयतीत्यर्थः। ज्वरयतीति।'ज्वर रोगे' घटादिः। सन्तापयतीति।'हेतुमति च' इति णिच्, सन्तापोऽत्र भावः, कर्ता च॥