2-3-52 अधीगर्थदयेशां कर्मणि अनभिहिते षष्ठी शेषे
index: 2.3.52 sutra: अधीगर्थदयेशां कर्मणि
शेषे इति वर्तते। अधीगर्थाः स्मरनार्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति। मातुरध्येति। मातुः समरति। सर्पिषो द्यते। सर्पिष ईष्टे। मधुन ईष्टे। कर्मणि इत्येव, मातुर्गुणैः स्मरति। शेषे किम्? मातरं स्मरति।
index: 2.3.52 sutra: अधीगर्थदयेशां कर्मणि
एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥
index: 2.3.52 sutra: अधीगर्थदयेशां कर्मणि
अधीगर्थदयेशां कर्मणि - अधीगर्थ । एषामिति ।इक्स्मरणे॑नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः । स्मरणार्थक इति यावत् । शेष इति । 'षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः । मातुः स्मरणमिति । वस्तुतःकर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः । सर्पिषो दयनमिति । वस्तुतः कर्मींभूतसर्पिःसंबन्धि दयनमित्यर्थः ।दय दानगतिरक्षणहिंसादानेषु॑ । दीनान्दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । 'सर्पिष' इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । 'लोकानीष्टे' इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः ।
index: 2.3.52 sutra: अधीगर्थदयेशां कर्मणि
अधीगर्थदयेशां कर्मणि॥ ठिक् स्मरणेऽ ककारोऽत्रैव विशेषणार्थः, अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्। शेषत्वेन विवक्षित इति। ननु शेषत्वेन विवक्षिते पूर्वेणैव सिद्धा षष्ठी, यथा - न माषाणामश्नीयाद्, अनुकरोति भगवतो नारायणस्येति? सत्यम्, प्रकरणं तु नियमार्थम् - अस्मिन्विषये षष्ठी भवत्येव श्रूयत एव न लुप्यत इति। किं कृतं भवति? समासो निवर्तितो भवति - मातुः स्मरणमिति। एवं पूर्वसूत्रे परत्र च प्रकरणे सर्वत्र द्रष्टव्यम्। समासे सति'सुपो धातुप्रातिपदिकयोः' इति षष्ठी लुप्येत, तेन प्रतिपदविधानषष्ठी न समस्यत इति सिद्धं भवति। कथं तर्हि विशेषस्मृतेः संशय इति समासः? उच्यते; शेषष्ठ।ल एव समासनिषेधः इह तु'कर्तृकर्मणोः कृति' इति कर्मरूपविवक्षायामेव षष्ठी समासो भविष्यति। कः पुनरत्र विशेषः - शेषषष्ठयाः समासः स्यात्, कारकषष्ठ।ल वा? अयमस्ति विशेषः - कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे तु समासान्तोदातत्वं स्यात्, अन्तोदातसमासनिवृतये प्करणम्। यत्र च कारकषष्ठी प्रतिषिध्यते, यथा - मातुः स्मृतमिति, तत्र समासोऽपि मा भूत्। एवं चात्र प्रकरणे येऽनुपाताः, यानि चात्र प्रत्युदाहरणानि, तेषूभयेष्वपि निष्ठायोगे शेषषष्ठयाः समासः, अन्यत्र कारकषष्ठ।ल अपीति वेदितव्यम्। गुणैरिति। गुणेषु शेषत्वेन विवक्षितेषु अस्य नियमस्याभावात्समासो भवत्येवेत्यर्थः। इयमेवास्मिन्प्रकरणे प्रत्युदाहरणगतिरिति॥