ज्ञोऽविदर्थस्य करणे

2-3-51 ज्ञः अविदर्थस्य करणे अनभिहिते षष्ठी शेषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति। सर्पिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तत इत्यर्थः। प्रवृत्तिवचनो जानातिरविदर्थः। अथ वा मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा चित्तभ्रान्त्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानमज्ञानमेव। अविदर्थस्येति किम्? स्वरेण पुत्रं जानाति॥

Siddhanta Kaumudi

Up

जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ज्ञोऽविदर्थस्य करणे>> - ज्ञोऽविदर्थस्य । ज्ञः-अविदर्थस्येति च्छेदः । 'ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठएकवचनम् । वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह — जानातेरज्ञानार्थस्येति । शेषत्वेनेति । संबन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपिप्रतिपदविधाना षष्ठी न समस्यते॑ इत्येतदर्थं वचनम् ।

Padamanjari

Up

ज्ञोऽविदर्थस्य करणे॥ असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह - अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। ठपह्नवे ज्ञःऽ ठकर्मकाच्चऽ इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृतौ वर्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद् - अहो उतमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः - सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह - मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् ठकर्मकाच्चऽ इत्यात्मनेपदानुपतेः परस्मैपदमुदाहार्यं मन्यते॥