कालाध्वनोरत्यन्तसंयोगे

2-3-5 कालाध्वनोः अत्यन्तसंयोगे अनभिहिते द्वितीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कालशब्देभ्योऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवत्यत्यन्तसंयोगे गम्यमाने। क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः संबन्धोऽत्यन्तसंयोगः। मासमधीते। संवत्सरमधीते। मासं कल्याणी। संवत्सरं कल्याणी। मासं गुडधानाः। संवत्सरं गुडधानाः। अध्वनः खल्वपि — क्रोशमधीते। योजनमधीते। क्रोशं कुटिला नदी। योजनं कुटिला नदी। क्रोशं पर्वतः। योजनं पर्वतः। अत्यन्तसंयोग इति किम्? मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः॥

Siddhanta Kaumudi

Up

इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कालाध्वनोरत्यन्तसंयोगे>> - कालाध्वनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः=अत्यन्तसंयोगः । अन्तो विच्छेदः, तमतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्याद्गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति — मासं कल्याणीति ।भवती॑ति शेषः । तिंरशद्दिनात्मको मासः । तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति — मासमधीते इति । तिंरशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रिव्यात्यन्तसंयोगे उदाहरति — मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुडधानाः सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्तसंयोगे उदाहरति — क्रोशं कुटिलेत्यादि । मासस्य द्विरिति । मासे तिंरशद्दिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमित्येव द्विरधीत इत्यर्थः ।द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दात्कृत्वोऽर्थे सुच् ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति षष्ठी । शेषषष्ठीति केचित् ।शिवरात्रौ जागृयात् इत्यत्र त्वधिकरणत्वस्य विवक्षितत्वात्सप्तमीत्याह#उ#ः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया ।

Padamanjari

Up

कालाध्वनोरत्यन्तसंयोगे॥ मासमधीत इति। ननु कर्मत्वादेवात्र द्वितीया सिद्धा, कथम्?'कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' । अवश्यं कर्मसंज्ञैवाश्रयणीया - आस्यते मासः, आसितव्यः आसित इति कर्मणि लकृत्यक्तखलर्था यथा स्युरिति, सत्यम्; इदमप्यवश्यं वक्तव्यम् - द्रव्यगुणाभ्यामत्यन्तसंयोगे द्वितीयायथा स्यादिति। तत्र क्रियात्यन्तसंयोगेऽपि परत्वादनेनैव युक्ता द्वितीया। मासस्येतिठ्कृत्वोऽर्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी॥