अन्तराऽन्तरेण युक्ते

2-3-4 अन्तरान्तरेणयुक्ते अनभिहिते द्वितीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीया स्वर्यते,न तृतीया। अन्तरान्तरेणशब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर्भवति। षष्ठ्यपवादोऽयं योगः। तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे। अन्तरेणशब्दस्तु तच्च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल्लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं च स्रुघ्नस्य प्राकारः॥

Siddhanta Kaumudi

Up

आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्तराऽन्तरेणयुक्ते>> - अन्तरान्तरेणयुक्ते । 'अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः ।

Padamanjari

Up

अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा - गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत्'सहयुक्ते' प्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम् - अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥