प्रसितोत्सुकाभ्यां तृतीया च

2-3-44 प्रसितोत्सुकाभ्यां तृतीया च अनभिहिते सप्तमि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात् सप्तमी च। प्रसितः प्रसक्तः, यस्तत्र नित्यमेवावबद्धः, स प्रसितशब्देनोच्यते। केशैः प्रसितः, केशेषु प्रसितः। केशैरुत्सुकः, केशेषूत्सुकः॥

Siddhanta Kaumudi

Up

आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रसितोत्सुकाभ्यां तृतीया च>> - प्रसितोत्सुकाभ्याम् ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम् ।

Padamanjari

Up

प्रसिदोत्सुकाभ्यां तृतीया च॥