साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः

2-3-43 साधुनिपुणाभ्याम् अर्चायां सप्तमि अप्रतेः अनभिहिते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति,न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायामिति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेरिति किम्? साधुर्देवदत्तो मातरं प्रति॥ अप्रत्यादिभिरिति वक्तव्यम्॥ साधुर्देवदत्तो मातरं परि, मातरमनु॥

Siddhanta Kaumudi

Up

आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ।<!अप्रत्यादिभिरिति वक्तव्यम् !> (वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः>> - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः ।

Padamanjari

Up

साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः'कृवापाजिमि' इत्युणन्तः,'पुण कर्मणि शुभे' इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह - न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा5 इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥