नक्षत्रे च लुपि

2-3-45 नक्षत्रे च लुपि अनभिहिते सप्तमि तृतीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तृतीयासप्तम्यावनुवर्तेते। लुबन्ताद् नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भवतः। पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्, मघासु पललौदनम्। नक्षत्र इति किम्? पञ्चालेषु वसति। लुपीति किम्? मघासु ग्रहः। इह कस्माद् न भवति — अद्य पुष्यः, अद्य कृत्तिका। अधिकरण इति वर्तते। वचनं तु पक्षे तृतीयाविधानार्थम्॥

Siddhanta Kaumudi

Up

नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नक्षत्रे च लुपि>> - नक्षत्रे च लुपि । 'नक्षत्रे ' इत्यनन्तरंप्रकृत्यर्थे सती॑ति शेषः । लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः । तदाह — नक्षत्रे प्रकृत्यर्थे इति । अधिकरण इति ।सप्तम्यधिकरणे चे॑त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्तकाल इत्यर्थः ।नक्षत्रेण युक्तः कालः॑ इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् ।

Padamanjari

Up

नक्षत्रे च लुपि॥ नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते - नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोतराभ्यां फल्गुनीभ्यां नोतरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्यैतदुक्तम् - लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्। अधिकरण इति वर्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति॥