पञ्चमी विभक्ते

2-3-42 पञ्चमी विभक्ते अनभिहिते यतः च निर्धारणम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यतश्च निर्धारणमिति वर्तते। षष्ठीसप्तम्यपवादो योगः। विभागो विभक्तम्। यस्मिन् निर्धारणाश्रये विभक्तमस्यास्ति, ततः पञ्चमी विभक्तिर्भवति। माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः॥

Siddhanta Kaumudi

Up

विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पञ्चमी विभक्ते>> - पञ्चमी विभक्ते । विभागो विभक्तिमिति । भावे क्तप्रत्ययाश्रयणादिति भावः ।यतश्चनिर्धारण॑मित्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः । एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह — निर्धार्यमाणस्येति ।निर्धारणावधे॑रिति शेषः,यतश्च निर्धारण॑मित्यनुवृत्तेः । अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति — माथुरा इति । अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढआ धनिन इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽआत्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः ।

Padamanjari

Up

पञ्चमी विभक्ते॥ विभक्तमस्यास्तीति। निर्द्धार्यमाणात्। एतदुक्तं भवति - निर्द्धार्यमाणस्य निर्द्धारणाश्रयस्य च विभागे सति निर्द्धारणं भवति, ततश्च सर्वत्रैव निर्द्धारणाश्रये विभक्तमस्तीति सामर्थ्यादवधारणमाश्रीयते - यस्मिन्निर्धारणाश्रये विभाग एव, न केनचिदात्मभाव इति। तेन गवां कृष्णेत्यादौ यद्यपि गोमण्डलात्कृष्णा गौः पृथक् क्रियते, तथापि गवात्मनान्तर्भावोऽस्तीति न भवति। उदाहरणे चु माथुपाटलिपुत्रेषु प्राणित्वेनान्तर्भावेऽपि शब्दोपाताकारापेक्षयानन्तर्भावाद्विभाग एव भवति। प्रत्याख्यातं चैतत्सूत्रमपादानप्रकरणे - बुद्ध्या समीहितैकत्वात्पञ्चालान् कुरुभिः पृथग्। यदाः विभजते वक्ता तदाऽपायः प्रतीयते॥ इति॥