2-3-3 तृतीया च होः छन्दसि अनभिहिते कर्मणि द्वितीया
index: 2.3.3 sutra: तृतीया च होश्छन्दसि
कर्मणि इति वर्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते। चशब्दात् सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च। यवाग्वाऽग्निहोत्रं जुहोति। यवागूमग्निहोत्रं जुहोति। छन्दसि इति किम्? यवागूमग्निहोत्रं जुहोति।
index: 2.3.3 sutra: तृतीया च होश्छन्दसि
जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥
index: 2.3.3 sutra: तृतीया च होश्छन्दसि
तृतीया च होश्च्छन्दसि॥ यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देअवतोद्देशेन प्रक्षिपतीत्यर्थः। अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्तते - अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः। मीमांसकास्त्वाहुः - अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च - स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्यौर्हूड्यते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्तते॥