षष्ठी चानादरे

2-3-38 षष्ठी च अनादरे अनभिहिते यस्य च भावेन भावलक्षणम्

Kashika

Up

index: 2.3.38 sutra: षष्ठी चानादरे


पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात् साऽपि भवति। अनादराधिके भावलक्षने भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः। रुदतः प्राव्राजीत्, रुदति प्राव्राजीत् क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत्। क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः।

Siddhanta Kaumudi

Up

index: 2.3.38 sutra: षष्ठी चानादरे


अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥

Balamanorama

Up

index: 2.3.38 sutra: षष्ठी चानादरे


षष्ठी चानादरे - षष्ठी चानादरे । चातसप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह — अनादराधिक्ये इति । अनादरोऽधिको यस्मादिति विग्रहः । रुदति रुदत इति ।कदा संन्यस्तवा॑निति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः ।

Padamanjari

Up

index: 2.3.38 sutra: षष्ठी चानादरे


षष्ठी चानादरे॥ ठनादरेऽ इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह - अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः॥