यस्य च भावेन भावलक्षणम्

2-3-37 यस्य च भावेन भावलक्षणम् अनभिहिते

Kashika

Up

index: 2.3.37 sutra: यस्य च भावेन भावलक्षणम्


सप्तमी इति वर्तते। भावः क्रिया। यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर्भवति। प्रसिद्धा च किया क्रियान्तरं लक्षयति। गोषु दुह्यमानासु गतः, दुग्धास्वागतः। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। भावेन इति किम्? यो जटाभिः स भुङ्क्ते। पुनर्भावग्रहणं किम्? यो भुङ्क्ते स देवदत्तः।

Siddhanta Kaumudi

Up

index: 2.3.37 sutra: यस्य च भावेन भावलक्षणम्


यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ।<!अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च !> (वार्तिकम्) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥

Balamanorama

Up

index: 2.3.37 sutra: यस्य च भावेन भावलक्षणम्


यस्य च भावेन भावलक्षणम् - यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे — यस्य क्रिययेति । क्रिया च कत्र्राश्रया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति — गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्व संबन्धे सप्तमी । शेषषष्ठपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवां तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । 'दुग्धासु गत' इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राआहृणेष्वधीयानेषु हगत इत्युदाहार्यम् । अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किंतु सकृज्ज्ञापकमपि । यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् ।उदिते आदित्ये जुहोती॑त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । 'उपरागे रुआआयात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः ।

Padamanjari

Up

index: 2.3.37 sutra: यस्य च भावेन भावलक्षणम्


यस्य च भावेन भावलक्षणम्॥ इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा - अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न ततस्य लक्षणमितीह न स्यादित्याशङ्क्याह - प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति - निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपाता भवत्येव लक्षणमिति॥