2-3-31 एनपा द्वितीया अनभिहिते पञ्चमी
index: 2.3.31 sutra: एनपा द्वितीया
एनबन्यतरस्यामदूरेऽपञ्चम्याः 5.3.35 इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्भवति । पूर्वेण षष्ठ्यां प्राप्तायाम् इदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् । षष्ठ्यपीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥
index: 2.3.31 sutra: एनपा द्वितीया
एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥
index: 2.3.31 sutra: एनपा द्वितीया
एनपा द्वितीया - एनपा द्वितीया ।षष्ठतसर्थे॑ति षष्ठआ नित्य बाधे प्राप्ते आह — योगविभागादिति । एनपेति योगो विभज्यते ।षष्ठतसर्थे॑ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते । एनबन्तेनयोगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ।एनबन्यतरस्यामदूरेऽपञ्चम्याः॑ इत्येनप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः । भाष्ये तुषष्ठतसर्थे॑ति सूत्रात्प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठसाधुरेवेति युक्तम् ।
index: 2.3.31 sutra: एनपा द्वितीया
एनपा द्वितीया॥'तत्रागारं धनपतिगृहादुतरेणास्मदीयम्' - स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्॥