षष्ठी हेतुप्रयोगे

2-3-26 षष्ठी हेतुप्रयोगे अनभिहिते हेतौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हेतोः प्रयोगो हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति। अन्नस्य हेतोर्वसति॥

Siddhanta Kaumudi

Up

हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<षष्ठी हेतुप्रयोगे>> - षष्ठीहेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह — हेतौ द्योत्ये इति । हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात्षष्ठीति फलितम् । 'हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति ।

Padamanjari

Up

षष्ठी हेतुप्रयोगे॥ हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्यते; यर्यायप्रयोगेऽपि'निमितकारणहेतुषु' इति वक्ष्यमाणेन षष्ठ।ल इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ'हेतौ' इति ततीयापवादो योगः॥