अकर्तर्यृणे पञ्चमी

2-3-24 अकर्तर्यृणे पञ्चमी अनभिहिते तृतीया हेतौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हेताविति वर्तते। कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर्भवति। तृतीयापवादो योगः। शताद् बद्धः सहस्राद् बद्धः। अकर्तरीति किम्? शतेन बन्धितः। शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञकम्॥

Siddhanta Kaumudi

Up

कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अकर्तर्यृणे पञ्चमी>> - अकर्तर्यृणे । 'हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कर्तृवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्बद्ध इति । नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति ।अधर्मण उत्तमर्णेने॑ति शेषः । बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च,तत्प्रयोजको हेतुश्चे॑त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः ।

Padamanjari

Up

अकर्तर्यृणे पञ्चमी॥ बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्ऽ शतमृणं च भवतीति। उतमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। तत्प्रयोजको हेतुश्चऽ इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम् - कर्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्॥