संज्ञोऽन्यतरस्यां कर्मणि

2-3-22 सञ्ज्ञः अन्यतरस्यां कर्मणि अनभिहिते तृतीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संपूर्वस्य जानातेः कर्मणि कारके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीया विभक्तिर्भवति। पित्रा संजानीते, पितरं संजानीते। मात्रा संजानीते, मातरं संजानीते॥

Siddhanta Kaumudi

Up

संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञोऽन्यतरस्यां कर्मणि>> - संज्ञोऽन्यतरस्यां । संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठएकवचनं 'संज्ञ' इति, तदाह — संपूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । संजानीते इति । सम्यक् जानीते इत्यर्थः ।संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदम् ।

Padamanjari

Up

संज्ञोऽन्यतरस्यां कर्मणि॥ संजानीत इति।'संप्रतिभ्यामनाध्याने' इत्यात्मनेपदम्,'ज्ञाजनोर्जा' इति जादेशः। आध्याने तु ठधीगर्थदयेशाम्ऽ इति षष्ठी भवति - मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी भवति - मातुः संज्ञातेति॥