2-3-21 इत्थंभूतलक्षणे अनभिहिते तृतीया
कञ्चित् प्रकारं प्राप्त इत्थंभूतः, तस्य लक्षणमित्थंभूतलक्षणम्। ततस्तृतीया विभक्तिर्भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत्। छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति — कमण्डलुपाणिश्छात्र इति, लक्षणस्य समासेऽन्तर्भूतत्वात्। इत्थंभूत इति किम्? वृक्षं प्रति विद्योतनम्।
कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥
<<इत्थंभूतलक्षणे>> - इत्थंभूतलक्षणे । अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः । 'भू प्राप्तौ' इति चौरादिकात् 'आधृषाद्वा' इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः । लक्षणं=ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः । तदाह — कंचित्प्रकारमिति । जटाभिस्तापस इति । तपोऽस्यास्तीति तापसः ।तपस्सहरुआआभ्यां विनीनी॑अण्चे॑ति मत्वर्थीयोऽण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह — जटाज्ञाप्येति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् ।
इत्थम्भूतलक्षणे॥ इदंशब्दात्सन्निहितवाचिनः प्रकारवचने थाल्, ठिदमस्थमुःऽ इति थमुप्रत्यये कृते इत्थमिति भवति। न चात्र किञ्चित्सन्निहतमस्तीतीत्थंशब्दः सन्निहितपरित्यागेन प्रकारविशेषमाचष्टे,'भू प्राप्तावात्मनेपदी च' ,ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तप्रत्ययस्तदाह - कञ्चिदिति। तस्येति कर्मणि षष्ठी। लक्ष्यते येनेति लज्ञणम्। येन श्वेतच्छत्रादिना राजत्वादिप्रकारविशेषापन्नतयान्यो लक्ष्यते तदित्थम्भूतलक्षणम्। तत्रेति। वर्तमानादित्यर्थः। कमण्डलुना छात्त्रोपाध्याययोर्गच्छतोश्छात्रस्य हस्ते कमण्डलुर्भवति, कमण्डलुना छात्त्रोऽयमिति ज्ञातवानित्यर्थः। यद्येवम्, ईद्दशे ज्ञाने कमण्डलोः करणत्वादेव तृतीया सिद्ध्यति? एवं तर्हि प्रमाता प्रमिति दशायामेवात्मनः प्रमितिविशेषं प्रतिपादयितुं वाक्यं प्रयुङ्क्ते - कमण्डलुनायं छात्र इति, तदा ज्ञानक्रियाया अप्रतिभासादप्रतिपाद्यत्वाच्च करणत्वासम्भवः। उदाहरणं त्वेवं व्याख्येयम् - कमण्डलुना छात्र इत्येवं रूपं ज्ञानमभूदिति। कोऽर्थः? अद्राक्षीदिति निदिष्टस्य द्रष्टुअर्ज्ञानविशेपोऽत्र कथ्यते, न प्रयोक्तुरित्यर्थः। इह कमण्डलुपाणिश्छात्र इति बहुव्रीहौ कृते कमण्डलुशब्दातृतीया प्राप्नोति; न च प्रत्यलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधः,'न ङिसंबुद्ध्योः' इति लिङ्गत्; न च'सुपो धातुप्रातिपदिकयोः' इति संप्रत्युत्पन्नायास्तृतचीयाया लुग्लभ्यते, तस्याः समास्प्रातिपदिकं प्रत्यनव्यवत्वादित्यत आह - इह न भवतीति। समासेऽन्तभूतत्वादिति। समासार्थं प्रति गुणभूतत्वादित्यर्थः। इत्थम्भूतस्य लक्षणं यत्प्रधानं तत्र तृतीया। बहुव्रीहौ तु वर्तिपदानां स्वार्थोपसर्जनान्यपदार्थाभिधायित्वान्नास्ति प्राधान्यम्॥