येनाङ्गविकारः

2-3-20 येन अङ्गविकारः अनभिहिते तृतीया

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङ्गशब्दोऽत्राङ्गसमुदाये शरीरे वर्तते, येनेति च तदवयवो हेतुत्वेन निर्दिश्यते। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते, ततस्तृतीयाविभक्तिर्भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुण्ठः। अवयवधर्मेण समुदायो व्यपदिश्यते। अङ्गविकार इति किम्? अक्षि काणमस्य॥

Siddhanta Kaumudi

Up

येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<येनाङ्गविकारः>> - येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम् । अर्शाअद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति । तदाह — येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । संबन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह — अक्षिसंबन्धीति । संबन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः ।

Padamanjari

Up

येनाङ्गविकारः॥ अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद् - येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे - अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह - अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत इत्युक्ते नैव संदेहो भवति - किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः - किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते - अक्ष्याद्यौपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृतये काणशब्दप्रयोगः, यथा - द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचितु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्॥