2-3-15 तुमर्थात् च भाववचनात् अनभिहिते अत्यन्तसंयोगे चतुर्थी
तुमुना समानार्थस्तुमर्थः। तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच् चतुर्थी विभक्तिर्भवति। <<भाववचनाश्च>> ३.३.११ इति वक्ष्यति, तस्येदं ग्रहणम्। पाकाय व्रजति। त्यागाय व्रजति। भूतये व्रजति। संपत्तये व्रजति। तुमर्थादिति किम्? पाकः। त्यागः। रागः। भाववचनादिति किम्? कारको व्रजति॥
भाववचनाश्च <{SK3180}> इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥
<<तुमर्थाच्च भाववचनात्>> - तुमर्थाच्च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति सूत्रम् । क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति । भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम् । अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः=क्रिया । उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् ।प्रत्यया॑दिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह — भाववचनाश्चेति ।भावे॑इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः ।यागाय याती॑त्याद्युदाहरणम् । #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम् । अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात् । भ#आववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव ।
तुमर्थाच्च भाववचनात्॥ तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य ततथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्यएतल्लक्षणनेत्रो ज्ञातुमर्हति - धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति। तुमर्थग्रहणं शक्यमकर्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देअषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते - क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति॥