क्रियार्थोपपदस्य च कर्मणि स्थानिनः

2-3-14 क्रियार्तोपपदस्य च कर्मणि स्थानिनः अनभिहिते अत्यन्तसंयोगे चतुर्थी

Kashika

Up

index: 2.3.14 sutra: क्रियार्थोपपदस्य च कर्मणि स्थानिनः


क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपाः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इत्येष विषयो लक्ष्यते। क्रियार्थोपपदस्य च स्थानिनोऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति। द्वितीयापवादो योगः। एधेभ्यो व्रजति। पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किम्? प्रविश पिण्डीम्। प्रविश तर्पनम्। भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः। कर्मणि इति किम्? एधेभ्यो व्रजति शकटेन। स्थानिनः इति किम्? एधानाहर्तुं व्रजति।

Siddhanta Kaumudi

Up

index: 2.3.14 sutra: क्रियार्थोपपदस्य च कर्मणि स्थानिनः


क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥

Balamanorama

Up

index: 2.3.14 sutra: क्रियार्थोपपदस्य च कर्मणि स्थानिनः


क्रियार्थोपपदस्य च कर्मणि स्थानिनः - क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था ।क्रिये॑ति विशेष्यमध्याहार्यम् । क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चारितं पदम्-उपपदम् । 'स्थानिन' इत्यपि तद्विशेषणम् । स्थानं प्रसक्तिरस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह — क्रियार्था क्रियेति । 'स्थानिन' इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति ।फलेभ्यो याती॑त्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह — फलान्याहर्तुमिति । इह फलाहरणक्रियार्था यानक्रिया, तद्वाचने उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वाच्चतुर्थी द्वितीयापवादः । नच तादथ्र्यचतुथ्र्या गतार्थता शङ्क्या, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थैव, अतो न फलेभ्यस्तादथ्र्यचतुर्थीप्रसक्तिः । एवं च फलकर्मकाहरणक्रियार्था यानक्रियेति बोधः । उदाहरणान्तरमाह — नमस्कुर्म इति । तुमुन्नन्तार्थाध्याहारं दर्शयति — नृसिंहमनुकूलयितुमिति । नचात्रनमःस्वस्ती॑त्येव चतुर्थी सिद्धेति वाच्यम्,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति द्वितीयापत्तेः । एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम् ।

Padamanjari

Up

index: 2.3.14 sutra: क्रियार्थोपपदस्य च कर्मणि स्थानिनः


क्रियार्थोपपदास्य च कर्मणि स्थानिनः॥ क्रिया क्रियार्थोपपदं यस्येति। ननु नास्मिन्नर्थेऽक्षराणि सन्ति तत्राह - तुमुन्ण्वुलावित्यादि। परिभाषितमुपपदं क्रियार्थमन्यत्र सम्भवतीत्ययमेव विषयो गृह्यते। अत्र च विषये क्रियैव क्रियार्थोपपदं तेनायमर्थो लभ्यते इति भावः।'यत्र गम्यते चार्थो न च प्रयुज्यते शब्दः स स्थानी' इति स्वनिकायप्रसिद्धिमाश्रित्याह - स्थानिनोऽप्रयुज्यमानस्येति। एधेभ्यो व्रजतीति। ननु चात्र'तादर्थ्ये' इत्येव चतुर्थी सिद्धा, इहापि तर्हि प्राप्नोति - एधानाहर्तु व्रजतीति? हरणार्था व्रजिक्रिया, न पुनरेधार्था चेदुदाहरणेऽपि तर्ह्येवमेव। एतावांस्तु विशेषः - प्रत्युदाहरणे शब्दः प्रयुज्यते, उदाहरणे तु नेति प्रतीयमाना च क्रिया कारकव्यपदेशस्य निमितम्। तत्र यथा प्रत्युदाहरणे आहरणापेक्षया द्वितीया सम्भवत्येवमुदाहरणेऽपि प्रतीयमानहरणापेक्षा द्वितीयैव स्यादित्ययमारम्भः। भक्षिरत्र स्थानीति। प्रविश गृहं पिण्डआआ भक्षयेति गम्यमानत्वात्। न तु क्रियार्थोपपद इति। यद्यपि पिण्डीभक्षणार्थ गृहप्रवेशनं तथापि पारिभाषिकमुपपदं न भवतीति भावः। शकटेनेति। ननु'मध्ये' पवादाःऽ इति द्वितीयामेव चतुर्ती बाधिष्यते, न करणतृतीयाम्, एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता। इदं त्वत्र प्रत्युदाहरणं द्रष्ट्व्यम् - ब्राह्मणस्यैधेभ्यो व्रजतीति। असति कर्मग्रहणे इतरोपपदविभक्तिवदियमपि शेषविषयैव स्यात्॥