2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगात् च अनभिहिते अत्यन्तसंयोगे चतुर्थी
नमः स्वस्ति स्वाहा स्वधा अलं वषट् इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। न॑मो॒ दे॒वे॑भ्यः॒ (मै०सं० १.२.१३)। स्वस्ति प्रजाभ्यः। स्वाहा॒ अ॒ग्नये॒ (तै०सं० १.८.१३.३)। स्व॒धा॑ पि॒तृ॑भ्यः॒ (मै०सं० १.२.१३)। अलं मल्लो मल्लाय। अलमिति पर्याप्त्यर्थग्रहणम्। प्रभुर्मल्लो मल्लाय। शक्तो मल्लो मल्लाय। वषडग्नये। वषडिन्द्राय। चकारः पुनरस्यैव समुच्चयार्थः। तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्। स्वस्ति ब्राह्मणेभ्यः॥
एभिर्योगे चतुर्थी स्यात् । हरये नमः । [(परिभाषा - ) उपपदविभक्तेः कारकविभक्तिर्बलीयसी] ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति <{SK1765}> स एषां ग्रामणीः <{SK1878}> इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥
एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥ इति चतुर्थी॥
<<नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च>> - नमःस्वस्ति । युज्यत इति योगः । कर्मणि घञ् । 'नमस्' इत्यादिभिर्युक्तादित्यर्थः । फलितमाह — एभिर्योगे इति । न च तादथ्र्यचतुथ्र्या गतार्थत्वं शङ्क्यं, तादथ्र्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थत्वात् । तादथ्र्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी, यतागुरोरिदं गुर्वर्थ॑मिति भाष्ये स्पष्टम् । एवंच नमःस्वस्त्यादियोगे तादथ्र्यस्य शेषत्वविक्षायामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह — उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः-उपपदविभक्ति, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः ।अन्तरान्तरेणे॑ति सूत्रे भाष्ये पठितमिदं वचनम् । तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः-अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तूपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । कारशिरःसंयोगादिना तोषयतीत्यर्थः । करशिरःसंयोगादिमात्रार्थत्वेऽकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्तुद्देश्यकं द्रव्यदानमित्यर्थः । स्वं रूपं शब्दस्य॑ इति अलशब्दस्यैव ग्रहणे 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिः । किंच दैत्येभ्यो हरिरलमित्यत्रैव स्यात्,दैत्येभ्यो हरिः प्रभु॑रित्यादौ न स्यादित्यत आह — अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्त्यर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननुप्रभुर्बुभूषुर्भुवनत्रयस्ये॑त्यादौ कथं षष्ठीत्यत आह — प्रभ्वादियोगे षष्ठीति । कुत इत्यत आह — स एषां ग्रामणारात निर्देशादिति । नन्वेवं सतिदैत्येभ्यः प्रभु॑रिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह — तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयादित्याशीर्वाक्ये चतुर्थ्येवेष्यते । तत्रचतुर्थी॑चाशिष्यायुष्ये॑त्यादिना परत्वात्पक्षे षष्ठीप्रसङ्गः इत्यत आह — चकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामर्थ्येनेत्यर्थः ।
नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ अलमिति पर्याप्त्यर्थग्रहणमिति। अलमित्यर्थग्रहणं तत्रापि पर्याप्तिग्रहणमित्यर्थः। तत्र तावदर्थग्रहणं तस्मै प्रभवतीति निर्देशात्, इह चालं कुरुते कन्यामिति ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीया भविष्यति। एवमलमोदनेनेत्यत्रापि करणे तृतीया, ओदनेन न किञ्चित्साध्यमित्यर्थावगमात्, तेन भूषणप्रतिषेधयोरग्रहणात्पर्याप्तेरेवग्रहणम्। चकारः पुनरित्यादि। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः - स्वस्ति जाल्माय, जाल्मत्वादाशीरभावाद् भूतकथनमेतत्; कुशलार्थैराशिषि चतुर्थी चेत्यस्यावकाशः - अन्ये कुशलार्थाः, कुशलं देवदतस्य कुशलं देवदताय; स्वस्ति गोभ्यो भूयात्, उभयप्रसङ्गे परत्वात्पक्षे षष्ठी स्यात्॥