गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि

2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायाम् अनध्वनि अनभिहिते अत्यन्तसंयोगे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गत्यर्थानां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति। ग्रामाय गच्छति। ग्रामं व्रजति। ग्रामाय व्रजति। गत्यर्थग्रहणं किम्? ओदनं पचति। कर्मणीति किम्? अश्वेन व्रजति। चेष्टायामिति किम्? मनसा पाटलिपुत्रं गच्छति। अनध्वनीति किम्? अध्वानं गच्छति ॥ अध्वनीत्यर्थग्रहणम्॥ पन्थानं गच्छति। मार्गं गच्छति॥ आस्थितप्रतिषेधश्चायं विज्ञेयः॥ आस्थितः संप्राप्तः, आक्रान्त उच्यते। यत्र तूत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या — पथे गच्छतीति। द्वितीयाग्रहणं किम्,न चतुर्थ्येव विकल्प्येत? अपवादविषयेऽपि यथा स्यात्। ग्रामं गन्ता। ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति॥

Siddhanta Kaumudi

Up

अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि>> - गत्यर्थ । शारीरपरिस्पन्दः-चेष्टा । मनसेति । अत्र शारीरचेष्टाया अभावान्न द्वितीयाचतुथ्र्यौ, किन्तु द्वितीयैवेति भावः ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकमर्थतः सङ्गृह्णाति-गन्त्राऽधिष्ठिते इति । गन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा-पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन गन्त्राधिष्ठित्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह-यदा त्विति । उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितो मोहात्तन्मार्गात्प्रच्युतो मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्ग आक्रमितुमिष्यते, तदाऽनध्वनीति निषेधाऽभावाच्चतुथ्र्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति — उत्पथेन पथे गच्छतीति ।उत्पथेने॑त्यनन्तरं 'गन्तुमशक्त' इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्गं प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाऽभावादनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थी ।

Padamanjari

Up

गत्यर्थकर्मणि द्वितीयाचतुथ्याé चेष्टायामनध्वनि॥