2-2-7 ईषत् अकृता आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः
ईषदित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति॥ ईषद्गुणवचनेनेति वक्तव्यम्॥ ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेनेति किम्? इह न भवति — ईषद् गार्ग्यः॥
ईषत्पिङ्गलः ।<!ईषद्गुणवचनेनेति वाच्यम् !> (वार्तिकम्) ॥ ईषद्रक्तम् ॥
<<ईषदकृता>> - ईषदकृता । ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गलं इति । पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ।अकृतेत्यपहाये॑ति शेषः ।
ईषदकृता॥ ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनीय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नतित्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चित? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षादियोगः - गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा - गोतरः, गोकल्पः, गोपाश इति॥