2-2-7 ईषत् अकृता आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः
index: 2.2.7 sutra: ईषदकृता
ईषतित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। ईषद्गुणवचनेन इति वक्तव्यम्। ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः। ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेन इति किम्? इह न भवति, ईषद् गार्ग्यः।
index: 2.2.7 sutra: ईषदकृता
ईषत्पिङ्गलः ।<!ईषद्गुणवचनेनेति वाच्यम् !> (वार्तिकम्) ॥ ईषद्रक्तम् ॥
index: 2.2.7 sutra: ईषदकृता
ईषदकृता - ईषदकृता । ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गलं इति । पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ।अकृतेत्यपहाये॑ति शेषः ।
index: 2.2.7 sutra: ईषदकृता
ईषदकृता॥ ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनीय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नतित्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चित? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षादियोगः - गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा - गोतरः, गोकल्पः, गोपाश इति॥