2-2-6 नञ् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः
index: 2.2.6 sutra: नञ्
नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। न ब्राह्मणः अब्राह्मणः। अवृषलः।
index: 2.2.6 sutra: नञ्
नञ् सुपा सह समस्यते ॥
index: 2.2.6 sutra: नञ्
नञ् सुपा सह समस्यते ॥
index: 2.2.6 sutra: नञ्
नञ् - नञ् । इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति ।
index: 2.2.6 sutra: नञ्
नञ्॥ विभक्तिञकारयोर्विशेषाभावाद् ञकारोच्चारणम्। सुपानशब्दस्य विशेषणात्पामादिलक्षणस्य नस्यासुवन्तत्वादेवाग्रहणं सिद्धम्। इहाब्राह्मणादिशब्देः क्षत्रियाद्यभिधानमिष्यते, तत्र जातिमात्रपरे ब्राह्मणशब्दे न विद्यते ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिरित्यन्यपदार्थप्रधानः समासो भवति। तत्र नाप्राप्ते बहुव्रीहावारम्भादनेन तस्य बाधनादब्राह्मणको देश इत्यपि न सिद्ध्यति; न हि प्रवृत्तिनिमितमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वयं समासः, नद्वन्निष्ठेष्विति नियामकमस्ति। इह चावर्षा हेमन्त इति हेमन्तस्य यद्वचने तत्समासस्य प्राप्नोति, लिङ्गे तु परवल्लिङ्गमिति वचनाद्दोषाभावः। इह च असोऽसर्वस्मै इत्युतरपदार्थस्योपसर्जनत्वात्यदादिकार्यं सर्वादिकार्यं च न स्यात्। यदा त्वसत्सामान्यवर्तमानो नञ् ब्राह्माणादिभिर्विशेष्यते, ब्राह्मणत्वेनासत्क्रियान्तरेण तु सन् क्षत्रियादिकोऽब्राह्मण इति, तदा पूर्वपदार्थप्रधानम्; तत्र नञर्थस्य प्राधान्यात्संख्यायोगः चसमासस्य न स्यात्, वाचनिकी तु परवल्लिङ्गता भवतु। स्यादेतत् - शब्दशक्तिस्वाभाव्यादसत्वरूपमर्थं वाक्ये न नञाचष्टे, समासे तु सत्वरूपम्, तेन सिद्धः संख्यअयोगः? एवमप्यपवादेनानेनाव्ययीभावस्य बाधादमक्षिकमिति न सिद्ध्यति, तस्य तु निर्मक्षिकमित्यादिरवकाशः, असोऽसर्वस्मै इति च पूर्ववत्स्मायाद्यसिद्धिः। अस्तु तर्ह्यत्रोतरपदार्थप्रधानः? यद्येवम्, ब्राह्मणमात्रस्यानयनं प्राप्नोति? यद्यौतरपदार्थप्रधानता तत्र हेतुः, इहापि तर्हि राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति? अस्त्यत्र विशेषः, राजा विशेषकः प्रयुज्यते। इहापि तर्हि नञ् विशेषकः प्रयुज्यते? कथं नञ् नाम स्यात्, अनियतगुणस्य गुणविशेषप्रतिपादनाय हि विशेषणं प्रवर्तते, न तदुपघाताय। नञा च ब्राह्मणार्थः सर्वात्मना प्रतिषिध्यमानः प्रतिषिध्यत इति कथमसतः प्राधान्यं स्यात्!तस्मादुतरपदार्थप्राधान्यमिच्छताऽस्मिन्विषये नञनर्थकः, अन्वाख्यनसामर्थ्यातु साधुत्वमेवंभूत स्यार्थवदनर्थकावयवस्य समासस्येति वाच्यम्, ततश्च ब्राह्मणमात्रस्यानयनं प्राप्नोति? नैष दोषः; निवृतपदार्थकोऽत्र ब्राह्मणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यते, कोऽपर्थः? केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशान्मुख्यमेव ब्राह्मणमाचष्टे; नञ्प्रयोगेण तु क्षत्रियादौ सादृश्यादिना निमितेनाध्यारोपितं ब्राह्मण्यं न तात्विकमिति द्योत्यते। तदेवं मुख्यो ब्राह्मणशब्दस्यार्थो निवृतः जातश्चामुख्यः क्षत्रियादिरिति न ब्राह्मणमात्रानयनम्, नापि न कस्यचिदानयनमिति सिद्धम्। उक्तं च - 'प्राक् समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा। स्वभावतो निवृतानां रूपभेदादलक्षिता॥' इति। स्यादेतत् - अर्थप्रत्यायनाय शब्दः प्रयुज्यते ब्राह्मणार्थश्चेन्निवृत्तिः, किं मुधा ब्राह्मणपदं प्रयुज्यते? तन्न; असति ब्राह्मणपदे नेत्येतावत्सुच्यमाने कस्यार्थोऽत्र निवर्तयितुमिष्ट इति न ज्ञायते। ब्राह्मणपदे तु सति तदर्थस्य क्षत्रियादौ मुख्यः सताविरहः प्रतीयते। अन्यद्दर्शनम् - सर्व एते शब्दा गुणसमुदाये वर्तन्ते, स्मर्यन्ते च - 'तपः श्रुतं च योनिश्चेत्येतद्ब्राह्मण्यकारणम्। तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः॥'इति तथा च श्रुतिः - 'षड् व्याधयो यं पुरुषं तपन्ति जैह्वो हार्द औदरो रैतसश्च। तप्तश्च घर्मः शिशिरश्च शीतः ब्राह्मणस्तं स्मरार्थं गरुत्मन्' ॥ इति गौरः शुच्याचारः पिङ्गलकेश इत्यादयश्च धर्माः, तदेषां समुदाये ब्राह्मणशब्दः, एवं क्षत्रियादिशब्देष्वपि द्रष्टव्यम्। एवं स्थिते समुदायेषु वृताः शब्दाः अवयवेष्वति वर्तन्त इति न्यायाज्जातिभिन्ने गुणभिन्ने वा यदा ब्राह्मणशब्दो वर्तते तदा स्वाभाविकी जातिगुणनिवृत्तिर्नञा द्योत्यते, अविष्टांशसद्भावप्रतिपादनाय ब्राह्मणशब्दप्रयोगः। यद्येवम्, द्वयोरपि भिन्नविषयत्वप्रसङ्गः, कथम्? यस्यांशस्य सद्भावं ब्राह्मणशब्द आह, न तस्याभावं नञाह; यस्याभावं नञाह, न तस्य सद्भावं ब्राह्मणशब्द आह? नैष दोषः; द्वावप्येतौ समुदायावलम्बिनौ कृतवत्, तद्यथैकदेशकरणाकरणाभ्यामेकमेव वस्तु कृतं चाकृतं च भवति, तथेहाप्येकदेशविभागात् समुदाय एव निवृत उत्यते, एकदेशसद्भावाच्च स एव सन्नभिधीयत इति सर्वमनवद्यम्। इहानेको जन आगत इति द्व्यादिष्वेकत्वमारोपितं प्रतीयते, मुख्यं तु प्रतिषिध्यते, क्षत्रियादाविव ब्राह्मण्यमित्येकवचनमेव भवति द्व्यादिसंख्या प्रतीयते। तदेवमुतरपदार्थप्रधान इति स्थितम्। अत्र च लिङ्गम् - ठेततदोः सुलोपो' कोरनञ्ऽ इत्यत्रानञ्समासग्रहणम्। अन्यथैततदोरर्थद्वारेण सम्बन्धिनः सोर्लोपो विधीयमानो नैषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात्। इह न ब्राह्मणस्य भाव इति भावेन नञा च युगपत्सम्बन्धे विवक्षिते त्वतलौ च प्राप्नुतः, समासश्च; तत्र यदि परत्वात्वतलौ कृत्वा पश्चात्पुनः प्रसङ्गविज्ञानान्नञ्समासः, क्रियते, ततः'तत्पुरुषे तुल्यार्थ' इति पूर्वपदप्रकृतिस्वरेणाद्यौदातं पदं स्यात्, प्रत्ययस्वरो नञ्स्वरश्चेष्यत इति समासे कृते त्वतलौ कार्यौ। आह च - त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थमिति। तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यान्न भवति, नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवति॥