कालाः परिमाणिना

2-2-5 कालाः परिमाणिना आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

परिमाणमस्यास्तीति परिमाणी, तद्वाचिना सुबन्तेन सह सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति। षष्ठीसमासविषये योगारम्भः। मासो जातस्य, मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः॥

Siddhanta Kaumudi

Up

परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः ।<!उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् !> (वार्तिकम्) ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । अह्नोऽह्न- <{SK790}> इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न सङ्ख्यादेः समाहारे <{SK793}> इति निषेधः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कालाः परिमाणिना>> - कालाः परिमाणिना । परिमाणिपदं व्याचष्टे — परिच्छेद्यवाचिनेति ।काला॑इति बहुवचनात्कालविशेषवाचका इत्यर्थः । मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् ।मासजातो दृश्यता॑मित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तकेमासो जातस्य यस्य स॑ इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावज्जननं साक्षात्परिच्छिनत्ति । जननाश्रयं तु देवदत्तं जननद्वारां परिच्छिनत्ति । तथाचमासपरिच्छेद्यजननाश्रयो देवदत्त॑ इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु 'जातमास' इति स्यात् । न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यं, समानाधिकरणानामेव बहुव्रीहिविधानात् ।निष्ठे॑ति जातशब्दस्य पूर्वनिपातापत्तेश्च ।जातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाऽभावादित्यलम् । द्व्यहो जातस्येति । 'तद्धितार्थ' इति समाहारे द्विगुः॑ 'राजाहःसखिभ्यः' इति टच् ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । उत्तरपदेनेति । 'तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे संपन्ने पूर्वयोः सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या । सच समासस्त्रयाणांकालाः परिमाणिने॑ति पूर्वसूत्रेण न सम्भवति,सुप्सुपे॑त्येकत्वस्य विवक्षितत्वात् । अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् ।सुप्सुपे॑त्येकत्वलं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि 'द्व्यहन्-जात' इति जातशब्दे उत्तरपदे परे द्वि-अहन् इत्यनयोःतद्धितार्थ॑इति द्विगुसमासे 'राजाहःसखिभ्यः' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे 'द्यह्नजात' इति रूपमित्यर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाऽभावे टच्, अह्नादेशश्च न स्यातामिति भावः । ननु द्वयोरह्नोः समाहारो द्व्यह इति कथं पूर्वमुक्तं, तत्राप्यह्नादेशप्रसङ्गादित्यत आह — पूर्वत्र त्विति । निषेध इति । अह्नादेशनिषेध इत्यर्थः ।

Padamanjari

Up

कालाः परिमाणिना॥ सामर्थ्यात्परिमाणवचना इति। परिमाणमपेक्ष्यपरिमाणो भवति, नान्यथेत्येतत्सामर्थ्यम्। तत्र च यद्यपि कालः प्रस्थादिवत्सर्वतो मानं न भवति, तथापि परिच्छेदहेतुत्वात्परिमाणमित्युच्यते। मासो जातस्येति कस्य पुनरयं मासः परिच्छेदकः; न तावज्जातस्य, तस्य हि दिष्ट।लदि परिमाणं न तु मासः; नापि जननक्रिया, तस्या एकक्षणभावित्वान्मासेन सम्बन्धाभावात्? उच्यते - जननक्रियावधिर्मासे न परिच्छद्यते। मासो जातस्येति, कोऽर्थः? जननक्रियाया ऊर्ध्वमस्य मासो जातः, अतीते मासेऽस्य जननमिति यावत्। अनेन प्रकारेण मासो जातस्य परिमाणम्, यथा - मासे देयमृणमिति ऋणदानस्यावधिर्मासेन परिच्छिद्यते। मासजात इति। यथा गावोऽस्य सन्तीति गोमानिति वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो वृतौ प्राधान्यम्, तत्कस्य हेतोः? अभिहितः षष्ठ।ल्र्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, यथा - चित्रा गावोऽस्य चित्रगुः पुरुष इति बहुव्रीहाविति, तद्वदत्रापि वाक्ये षष्ठीनिर्देअष्टस्यापि तद्वतो जातस्य वृतौ प्राधान्यां द्रष्टव्यम्। तथा च मासजातो दृश्यतामिति क्रियायोगो जातस्यैव भवति, न पुनरर्द्धपिप्पल्यादिवत्पूर्वपदार्थस्य। द्व्यहजात इति। द्वयोरह्नोः समाहारः राजाहः सखिभ्यष्टच,ऽठ्न संख्यादेः समाहारेऽ इत्यह्नादेशस्य प्रतिषेधः। कथं तर्हि द्व्यहजात इति, द्वे अहनी अस्य जातस्येति त्रयाणां पदानां युगपदनेन समासे कृते जातशब्द उतरपदे परतः पूर्वयोर्द्विगुर्भविष्यति? ननु च'सुप्सुपा' इत्येकत्वसंख्याया विवक्षितत्वाद् द्वयोर्द्वयोः न बहूनां युगपत्? उच्यते - वक्तव्यमेवैतद् उतरपदेन परिमाणिना द्वयोः समासवचनमिति; परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः। अथ द्वयोर्युगपदिति गम्यते, तस्माद्वचनाद्बहूनामप्ययं समासो भवति। एवं द्वौ मासौ जातस्य द्विमासजातः, त्रिपदे तत्पुरुषे जातशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे सति कालान्ते द्विगावपि पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम् पात्रादि, द्विमासं जातस्येति विगृह्य समासे क्रियमाणे सति शिष्टत्वात्समासान्तोदातत्वं स्यात्। इह मासौ जातस्य, मासा जातस्येति द्विवचनबहुवचनान्तानामयं समासो भवति। वृतौ विभक्तौ निवृतायां द्वित्वबहुत्वावगतौ प्रमाणाभावाद् अभेदैकत्वसंख्याप्यत्र न भवति, शुद्धमेव त्वेकत्वं गम्यते। यत्र द्वयोर्बहुषु वानुस्यूत एकः शब्दार्थस्तत्रैवाभेदैकत्वसंख्य, मासशब्दस्त्वक्तपरिमाणमर्थमाचष्ट इति द्वित्वबहुत्वावगतौ विभक्तिमपेक्षते, स्वतस्त्वेकत्वस्यैवासाधारणः॥