वाहिताग्न्यादिषु

2-2-37 वा आहिताग्न्यादिषु आ कडारात् एका सञ्ज्ञा समासः पूर्वम् बहुव्रीहौ निष्ठा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निष्ठेति पूर्वनिपाते प्राप्ते विकल्प उच्यते। आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम्। अग्न्याहितः। आहिताग्निः। जातपुत्रः। पुत्रजातः। जातदन्तः। जातश्मश्रुः। तैलपीतः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगणश्चायम्। तेन गडुकण्ठप्रभृतय इहैव द्रष्टव्याः॥

Siddhanta Kaumudi

Up

आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ।<!प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ !> (वार्तिकम्) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाऽऽहिताग्न्यादिषु>> - वाऽऽहिताग्न्यादिषु ।निष्ठायाः पूर्वं प्रयोग॑ इति शेषः । आहिताग्निरिति । आहिताः=आधानेन संस्कृता अग्नयो येनेति विप्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति - अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति — दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः ।निष्ठे॑त्यस्य 'सप्तमीविशेषणे' इत्यस्य चा.डयमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः=कोशान्निष्कासितोऽसिर्येनेति विग्रहः । एवंजातीयान्याहिताग्न्यादित्वकल्पनया समाधेयानीत्याहुः । *इति बालमनोरमायां बहुव्रीहिसमासः***अथ भावकर्मप्रक्रिया ।अथ भावकर्मतिङ्प्रकरणं निरूप्यते ।लः कर्मणी॑त्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते — अथेति । 'निरूप्यन्ते' इति शेषः । तत्रशेषात्कर्तरि परस्मैपदम्,॒अनुपराभ्यां कृञः॑ इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह — भावकर्मणोरिति तङिति ।

Padamanjari

Up