सप्तमीविशेषणे बहुव्रीहौ

2-2-35 सप्तमीविशेषणेबहुव्रीहौ आ कडारात् एका सञ्ज्ञा समासः पूर्वम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्वोपसर्जनत्वाद् बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम्। सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कण्ठेकालः। उरसिलोमा। विशेषणम् — चित्रगुः। शबलगुः॥ सर्वनामसंख्ययोरुपसंख्यानम्॥ सर्वश्वेतः। सर्वकृष्णः। द्विशुक्लः। द्विकृष्णः। अनयोरेव मिथः संप्रधारणायां परत्वात् संख्यायाः पूर्वनिपातः। द्व्यन्यः। त्र्यन्यः॥ वा प्रियस्य पूर्वनिपातः॥ गुडप्रियः। प्रियगुडः॥ सप्तम्याः पूर्वनिपाते प्राप्ते गड्वादिभ्यः सप्तम्यन्तं परम्॥ गडुकण्ठः। गडुशिराः। कथं वहेगडुः? प्राप्तस्य चाबाधा व्याख्येया॥

Siddhanta Kaumudi

Up

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः ।<!सर्वनामसंख्ययोरुपसख्यानम् !> (वार्तिकम्) ॥ सर्वश्वेतः । द्विशुक्लः ।<!मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् !> (वार्तिकम्) ॥ द्व्यन्यः ।<!संख्याया अल्पीयस्याः !> (वार्तिकम्) ॥ द्वित्राः । द्वन्द्वेऽपि ॥ द्वादश ।<!वा प्रियस्य !> (वार्तिकम्) ॥ गुडप्रियः । प्रियगुडः ।<!गड्वादेः परा सप्तमी !> (वार्तिकम्) ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥

Laghu Siddhanta Kaumudi

Up

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सप्तमीविशेषणे बहुव्रीहौ>> - सप्तमीविशेषणे ।उपसर्जनं पूर्व॑मित्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणं । तदाह — सप्तम्यन्तमिति । कण्ठेकाल इति ।कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः ।सुपी॑ति योगविभागात्कः ।सप्तम्युपमानपूर्वपदस्ये॑ति बहुव्रीहि समासः, स्थशब्दलोपश्चे॑ति 'अनेकमन्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् ।अमूर्धमस्तका॑दिति सप्तम्या अलुक् । अत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदं, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिंकरणपदबहुव्रीहिज्ञापकम् । किंच विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य 'कण्ठे' इत्यस्याधिकरणत्वं, तस्य च कालरूपे उत्तरपदार्थे उपसङ्क्रमस्तदा 'कण्ठे' इत्यस्याऽप्रथमान्तत्वाद्बहुव्रीहेरप्रसक्तेस्तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणादप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेनसच्चास्त्रजन्मा हि विवेकलाभः॑ इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य प#ऊर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः । सर्वनामसङ्ख्ययोरिति ।बहुव्रीहौ पूर्वनिपातस्ये॑ति शेषः । सर्वओत इति । रार्वः ओतो यस्येति विग्रहः । उभयोरपि गुमवचनत्वेन विशेषणविशेष्यभावे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात्सर्वशब्दस्यैव पूर्वनिपातः । उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सङ्ख्यात्वत्रिशब्दस्यैव पूर्वनिपातः । 'द्विशुक्ल' इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य द्व्यन्य इति बहुव्रीहौ सर्वनामसङ्ख्ययोरन्त्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह — मिथोऽनयोरिति । सर्वनामसङ्ख्ययोरित्यर्थः । सङ्ख्या पूर्वमिति ।प्रयोज्ये॑ति शेषः । शब्दपरेति । एकस्मिन्नेव सूत्रे सर्वनामसङ्क्ययोः समासोपात्तत्वेऽपि सर्वनामसङ्क्याशब्दयो सङ्ख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । सङ्क्याया अल्पीयस्या इति । न्यूनाधिकसङ्ख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्वप्रयोग इति वक्तव्यमित्यर्थः । द्वित्रा इति । द्वौ वा त्रयो वेति विग्रहेसङ्ख्ययाव्यये॑ति बहुव्रीहिः । ननुद्वन्द्वे घी॑त्यतो 'द्वन्द्वे' इत्यनुवृत्तौअल्पाच्तर॑मिति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद्बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह — द्वन्द्वेऽपीति । इदंच वार्तिकं द्वन्द्वेऽद्वन्देऽपि प्रवर्तत इत्यर्थः । द्वादसेति । द्वौ च दश चे॑ति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् ।तदस्मिन्निधिकमिति दशान्ताड्डः॑ इति सूत्रबाष्ये सहरुआआणां शतमित्यर्थे शतसहरुआमिति भाष्यकैयटयो प्रयोगोऽत्रमानमिति शब्देन्दुशेखरे स्थितम् ।वा प्रियस्येति । बहुव्रीहौ पूर्वं प्रयोगो वक्तव्य इत्यर्थः । गड्वादेः परा सप्तमीति ।बहुव्रीहौ योज्येति वक्तव्य॑मिति शेषः । गडुकण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मांसगोलः । असंज्ञात्वात् 'हलदन्तात्' इत्यलुङ् न । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः=स्कन्धः, तन्मिन् गडु-दुर्मांसग्रन्तिर्यस्येति विग्रहः । निष्ठा । निष्ठान्तमिति ।क्तक्तवतूनिष्ठे॑ति वक्ष्यति, तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दात्वाद्विशेषणत्वे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति ।जातिकालसुखादिभ्योऽनाच्छादनात्क्तः, इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्योदाहरणमाह — सारङ्गजग्धीति सारङ्गः=हरिणः, जग्धः=भक्षितो यया इति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष् । कालपूर्वस्योदाहरति — मासजातेति । मासो जातो यस्या इति विग्रहः । टाप् । सुखपूर्वस्योदाहरति — सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटो येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः ।

Padamanjari

Up

सप्तमीविशेषमे बहुव्रीहौ॥ कण्ठेकाल इति। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं प्रयुज्यते तदा सप्तमीग्रहणेन प्रयोजनम्, अन्यदा तु विशेषणत्वादेव सिद्धम्। सम्प्रधारणायामिति। इदमस्तु इदमेवेति निरूपणाऊउसम्प्रधारणा। परत्वादिति। शब्दपरविप्रतिषेधादित्यर्थः। एवमर्थमेव च'संख्यासर्वनाम्नोः' इति नोक्तम्। गड्वादिभ्य इति गड्वादयः प्रयोगतो द्रष्टव्याः॥