अजाद्यदन्तम्

2-2-33 अजादिः अदन्तम् आ कडारात् एका सञ्ज्ञा समासः पूर्वम् द्वन्द्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वन्द्व इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्ट्रशशकम्॥ बहुष्वनियमः॥ अश्वरथेन्द्राः। इन्द्ररथाश्वाः॥ द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन॥ इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्व इति वा॥

Siddhanta Kaumudi

Up

इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ।<!घ्यन्तादजाद्यदन्तं विप्रतिषेधेन !> (वार्तिकम्) ॥ इन्द्राग्नी ॥

Laghu Siddhanta Kaumudi

Up

द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अजाद्यदन्तम्>> - अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य॑ इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह — ध्यन्तादिति । ध्यन्तशब्देनद्वन्द्वे घी॑ति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेणद्वन्द्वे घी॑त्येतद्बाधित्वाअजाद्यदन्त॑मिति प्रवर्तते इत्यर्थः ।

Padamanjari

Up

अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति।'द्वन्द्वे घि' इत्यस्यावकाशः - पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः - उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥