राजदन्तादिषु परम्

2-2-31 राजदन्तादिषु परम् आ कडारात् एका सञ्ज्ञा समासः उपसर्जनं पूर्वम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वनिपाते प्राप्ते परप्रयोगार्थं वचनम्। राजदन्तादिषु उपसर्जनं परं प्रयोक्तव्यम्। न केवलमुपसर्जनस्य, अन्यस्यापि यथालक्षणं विहितस्य पूर्वनिपातस्यायमपवादः परनिपातो विधीयते। दन्तानां राजा, राजदन्तः। वनस्यागे्र, अग्रेवणम्। निपातनादलुक्॥ राजदन्तः। अग्रेवणम्। लिप्तवासितम्। नग्नमुषितम्। सिक्तसंमृष्टम्। मृष्टलुञ्चितम्। अवक्लिन्नपक्वम्। अर्पितोप्तम्। उप्तगाढम्। पूर्वकालस्य परनिपातः। उलूखलमुसलम्। तण्डुलकिण्वम्। दृषदुपलम्। आरग्वायनबन्धकी। चित्ररथबाह्लीकम्। आवन्त्यश्मकम्। शूद्रार्यम्। स्नातकराजानौ। विष्वक्सेनार्जुनौ। अक्षिभ्रुवम्। दारगवम्। शब्दार्थौ। धर्मार्थौ। कामार्थौ। अनियमश्चात्रेष्यते। अर्थशब्दौ। अर्थधर्मौ। अर्थकामौ। तत्कथम्? वक्तव्यमिदम् — धर्मादिषूभयमिति। वैकारिमतम्। गजवाजम्। गोपालधानीपूलासम्। पूलासककरण्डम्। स्थूलपूलासम्। उशीरबीजम्। सिञ्जास्थम्। चित्रास्वाती। भार्यापती। जायापती। जम्पती। दम्पती। जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते। पुत्रपती। पुत्रपशू। केशश्मश्रू। श्मश्रुकेशौ। शिरोबीजम्। सर्पिर्मधुनी। मधुसर्पिषी। आद्यन्तौ। अन्तादी। गुणवृद्धी। वृद्धिगुणौ॥

Siddhanta Kaumudi

Up

एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ।<!धर्मादिष्वनियमः !> (वार्तिकम्) ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजानो राजदन्ताः। <<धर्मादिष्वनियमः>> (वार्त्तिकम्)। अर्थधर्मौ। धर्मार्थावित्यादि॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<राजदन्तादिषु परम्>> - नेष्टोद्गातृशब्दे आद्गुणश्च । राजदन्तादिषु परम् ।उपसर्जनं पूर्व॑मित्यनुवर्तते । तदाह — एष्विति । राजदन्तादिष्वित्यर्थः । पूर्वप्रयोगर्हमित्यतः प्राक्उपसर्जनं॑मिति सेषः । राजदन्त इति । दन्तशब्दस्य षषष्टीतत्पुरुषेऽप्रदानतयोपसर्जनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रेवणादिशब्दास्तत्पुरुषाः,विष्वक्सेनार्जुनादयो द्वन्द्वश्च पठिता अतो द्वन्द्वप्रकरणे तदुपन्यासः । विआक्सेनार्जुनावित्यत्रअजाद्यदन्त॑मित्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्वनियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमो वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः ।

Padamanjari

Up

राजदन्तादिषु परम्॥ न केवलमित्यादि। अत्र विहितपूर्वनिपातस्येति पाठे विहितः पूर्वनिपातो यस्य तस्येत्यर्थः। प्रायेण तु विहितस्येति पाठः। तत्रापवाद इति शेषः। अन्यस्यापि घ्यादेर्यः पूर्वनिपातो यथालक्षणं विहितस्तस्याप्यपवाद इत्यर्थः। अग्रे वणमिति।'वनं पुरगा' इत्यादिना णत्वम्। तदेव तर्हि णत्वविधानं परनिपातस्य ज्ञापकं भविष्यति? तन्न, ठुपसर्जनं पूर्वम्ऽ इति नियमो न प्रवर्तत इत्येतावतोऽप्यर्थस्य ज्ञापकत्वेन तदुपपन्नम्, तस्मात्कथं नियमेन परनिपातः स्यात्! इह च निपातनादलुगिव णत्वमपि न भविष्यतीति तत्राग्रेग्रहणं शक्यमकर्तुम्। पूवेकालस्येति।'पूर्वकालैक' इति प्रथमानिर्द्देशादुपसर्जनस्येत्यर्थः। उलूखलमुसलादिद्वन्द्वेषु क्वचिदल्पाक्षरत्वात्क्वचिद् घ्यन्तत्वात्क्वचिदजाद्यदन्तत्वात्पूर्वनिपातप्रसङ्गः, क्वचिदनियमः। द्दषदुपलमिति। प्रमाद पाठः; तेन परनिपातस्यापि सिद्धत्वादिह पाठः शक्योऽकर्तुम्॥