तत्र तेनेदमिति सरूपे

2-2-27 तत्र तेन इदम् इति सरूपे आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा बहुव्रीहिः अनेकम्

Kashika

Up

index: 2.2.27 sutra: तत्र तेनेदमिति सरूपे


तत्र इति सप्तम्यन्तं गृह्यते। तेन इति तृतीयान्तम्। सरूपग्रहणं प्रत्येकमभिसम्बध्यते। तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति। इतिकरनश्च इह विवक्षार्थो लौकिकमर्थमनुसारयति। ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वम् इतिकरणाल्लभ्यते। यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यतिदम् इति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतिहारे 5.4.127 इति इच् समासान्तः, स च अव्ययम्। अन्येषामपि दृश्यते 6.3.137 इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम्।

Siddhanta Kaumudi

Up

index: 2.2.27 sutra: तत्र तेनेदमिति सरूपे


सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते <{SK3539}> दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥

Balamanorama

Up

index: 2.2.27 sutra: तत्र तेनेदमिति सरूपे


तत्र तेनेदमिति सरूपे - तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् ।तत्रे॑त्यनेन सप्तम्यन्ते पदे विवक्षिते । 'ग्रहणविषये' इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् ।तेने॑त्यनेन तु तृतीयान्ते पदे विवक्षिते ।प्रहरणविषये॑इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम् । 'सरूपे' इति प्रथमाद्विवचनान्तं पदविशेषणम् । 'ग्रहणविषये' इति 'प्रहरणविषये' इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति ।इद॑मित्यर्थनिर्देशः ।युद्धं प्रवृत्त॑मिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये॑इत्यपयध्याहार्यम् । तदाह — सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्रते अस्मिन्निति ग्रहणं=केशादि । अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये । ग्रहणवाचके इति यावत् । प्रहरणविषये इति । प्रह्यियते अनेनेति प्रहरणं =दण्डादि । तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये । प्रहरणवाचके इति यावत् । अत्रापिसरूपे॑पदे इन्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थे इति ।इद॑मिति सामान्यार्थनिर्देशः ।युद्ध॑मिति विशेषणिर्देशः । अतः केशाकेशि युद्धिमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु 'ग्रहणविषये'प्रहरणविषये॑इत्यध्याहारे किं प्रमाणमित्यत आह — इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः ।केशाकेशी॑त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः ।

Padamanjari

Up

index: 2.2.27 sutra: तत्र तेनेदमिति सरूपे


तत्र तेनेदमिति सरूपे॥ इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति - एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह - लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह - ततश्चेत्यादि। एतदेव विवृणोति - यतत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणमुकेशादि, प्रहरणमुदण्डादि, कर्मव्यतीहारःऊउपरस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि - ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्बहिरङ्गः॥