संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये

2-2-25 सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा बहुव्रीहिः अनेकम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संख्येये या संख्या वर्तते तया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते, बहुव्रीहिश्च समासो भवति। अव्यय — उपदशाः। उपविंशाः। आसन्नदशाः। आसन्नविंशाः। अदूरदशाः। अदूरविंशाः। अधिकदशाः। अधिकविंशाः। संख्या — द्वित्राः। त्रिचतुराः। द्विदशाः। संख्ययेति किम्? पञ्च ब्राह्मणाः। अव्ययासन्नादूराधिकसंख्या इति किम्? ब्राह्मणाः पञ्च। संख्येय इति किम्? अधिका विंशतिर्गवाम्॥

Siddhanta Kaumudi

Up

संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये- <{SK851}> इति वक्ष्यमाणो डच् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये>> - सङ्ख्यया । शेषग्रहणम्, 'अनेकमन्यपदार्थे' इति च निवृत्ते ।बहुव्रीहि॑रित्यनुवर्तते । 'सुप्सुपा' इति च । 'सङ्ख्येये' इतयेतत्सङ्ख्ययेत्यत्रान्वेति । सङ्ख्यया परिच्छेद्यं-सङ्ख्येयम् ।तत्रार्थे विद्यमानया सङ्ख्यये॑ति लभ्यते । सङ्ख्या शब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः । तदाह — सङ्ख्येयार्थया सङ्क्ययेति । एकादिशब्देन सुबन्तेनेत्यर्थः । अव्ययादय इति । अव्यय-आसन्न-अदुर-सङ्ख्या एते सुबन्ता इत्यर्थः । अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किंतु एकादिशब्दपर एव । अत्रेदमवधेयम्-विशतेः प्रागेकादिशब्दाः सङ्ख्येयेषु वर्तन्ते, विशेष्यलिङ्गाश्च । दसादयो नित्यबहुवचनान्ताः । विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः, सङ्ख्यायां सङ्ख्येये च वर्तन्ते, नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यता विंशतिब्र्राआहृणाः, ब्राआहृणानां विंशतिरिति । यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति । चत्वारिंशदिति गम्यते । गवां तिरुआओ विंशतय इति । षष्ठिरिति गम्यते ।विंशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्क्ययोः । सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।॑इत्यमरः । अत्राव्ययस्योदाहरति — उपदशा इति । उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्त्तिनि उपशब्दो वर्तते । दशसमीपवर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाऽभावादप्रथमान्तत्वाच्च 'अनेकमन्यपदार्थे' इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति — नवैकादश वेत्यर्थ इति । सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम्, एकार्थीभावबलात् । तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसङ्ख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशन्शब्दाड्डचि 'नस्तद्धिते' इति टिलोप इति भावः ।

Padamanjari

Up

संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ उपदशा इति।'बहुव्रीहौ संख्येये डजबहुगणात्' इति डचि टिलोपः, दशानां समीपे ये भवन्ति त उच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। उपशब्दोऽयमाराच्छब्देनैकार्थत्वात्समीपे समीपिनि च वर्तते। तत्र समीपिप्राधान्येऽयं बहुव्रीहिः। सामीप्यप्राधान्ये ठव्ययं विभक्तिसमीपऽ इत्यव्ययीभावः। उपदशं दन्तोष्ठा इति। अत्र धर्मधर्मिणोपभेदोपचारात्सामानाधिकरण्यम्। उपविशा इति।'ति विंशतेर्डिति' इति लोपः। आसन्ना दशानामासन्नदशाः, तेऽपि नवैकादश वा। अधिकदशास्त्वेकादश। द्वौ वा त्रयो वा द्वित्राः, वार्थेऽयं समासः। वार्थश्च यदि विकल्पः स्यात्, ततो यदि द्वौ भवतस्तदा बहुवचनं न स्यात्। तस्मात्संशयोऽत्र वार्थः, स चानियतसंख्याविमर्शः, तत्र तु त्रयोऽपि सर्वदा परिस्फुरन्तीति तदपेक्षं बहुवचनम्। अथ वा - पञ्चैवात्र सर्वदा भवन्ति, कथम्? विमर्शज्ञानमुभयपक्षालम्बि एकं च तत्र, यथा - द्वौ वा त्रयो वा पुरुषा आनीयन्तामित्यत्र पुरुषशब्दे तिङ्न्ते च बहुवचनमेव भवति, कस्य हेतोः? मिश्रितेषु तयोर्वृतेः। एवं द्वित्रिपदमपि मिश्रितेषु वर्तत इति सैषा पञ्चाधिष्ठाना वाक्, अतो बहुवचनमेव भवति। आनयनादिकार्थं तु द्वयोस्त्रयाणां वा यथारुचि भवति। वाक्यवदेव समासस्य चैषा हि आपत्, अतस्तेषु मिश्रितेषु वृत्तिः, तेन द्वौ वा पुरुषा आनीयन्तामिति वाक्ये द्विशब्दाद् द्विवचनमेव भवति। त्रिचतुरा इति।'चतुरो' च्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्ऽ इत्यच्। द्विदशा इति। अत्र द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यते, न दशत्वसंख्या; एकत्वात्। नापि संख्यायुक्ताः, बहुत्वात्। तत्र वाक्ये सुचमन्तरेणाभ्या वृतेरनवगमात्सुच् भवति, ततश्चास्वपदविग्रहः क्रियते - द्विर्दश द्विदशा इति। वृतौ तु स्वभावादेव सुचमन्तरेणाभ्यावृत्तिसंख्यां द्विशब्द एवाहेति संख्यावाचित्वात्समस्यते। नन्वत्र वार्थः सुजर्थश्चान्यपदार्थे इति पूर्वेणैव सिद्धम्, तन्न; सुचः स्वार्थिकत्वातदर्थोऽपि पदार्थ एव। मत्वर्थे पूर्वयोगः; अमत्वर्थार्थोऽयमारम्भः। ननु प्राप्तोदकादि प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु यथाभिधानं भवतीत्युक्तम्, एवं तर्हि प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः। अथ प्रथमार्थं वर्जयित्वेत्येतदनाद्दत्य यथाभिधानं भवतीत्युच्यते, एवं तर्हि तस्यैव प्रपञ्चः संख्यायाः समासः, अव्ययानां तु चतुर्दशादिभिः संख्येयवाचिभिः समासो विधेय एव। केचितु ये विंशत्यादयः संख्याने वर्तन्ते तैः पूर्वेणैव सिद्धम् - अधिका विंशतिर्येषां त इमेऽधिकविंशाः, विंशतिसंख्या आसन्ना येषां ते आसन्नविंशा इति, तत्र'सर्वनामसंख्ययोः' इति विंशतिशब्दस्य पूर्वनिपातः प्राप्नोति, तस्माद्विंशत्याद्यर्थमप्यव्ययादीनां ग्रहणं कर्तव्यमेव॥