शेषो बहुव्रीहिः

2-2-23 शेषः बहुव्रीहिः आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा

Kashika

Up

index: 2.2.23 sutra: शेषो बहुव्रीहिः


उपयुकतादन्यः शेषः। षेशः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः समासो न उक्तः। वक्ष्यति अनेकमन्यपदार्थे 2.2.24 चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेषः इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः न बहुव्रीहौ 1.1.29 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 2.2.23 sutra: शेषो बहुव्रीहिः


॥ अथ बहुव्रीहिसमासप्रकरणम् ॥

अधिकारोऽयम् । द्वितीया श्रिता - <{SK683}> इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.23 sutra: शेषो बहुव्रीहिः


अधिकारोऽयं प्राग्द्वन्द्वात्॥

Balamanorama

Up

index: 2.2.23 sutra: शेषो बहुव्रीहिः


शेषो बहुव्रीहिः - शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननुद्वितीया श्रिते॑तितृतीया तत्कृते॑तिचतुर्थी तदर्थे॑तिपञ्चमी भयेने॑ति,षष्ठी॑ति,सप्तमी शौण्डै॑रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः ।विशेषणं विशेष्येणे॑त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह — विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिंत विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः । तदाह — प्रथमान्त इत्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 2.2.23 sutra: शेषो बहुव्रीहिः


शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति।'शिष असर्वोपयोगे' इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च -'शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्' इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते - स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य शृङ्गग्राहिकया समासो नोक्तः, यथा - प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥