2-2-17 नित्यं क्रीडाजीविकयोः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी
index: 2.2.17 sutra: नित्यं क्रीडाजीविकयोः
न इति निवृत्तम्, न तृजकौ। नित्यं समासो विधीयते। क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। तृच् क्रिडाजीविकयोर्न अस्ति इत्यक एव उदाह्रियते। उद्दालकपुष्पभञ्जिका। वारनपुष्पप्रचायिका। जीविकायाम् दन्तलेखकः। नखलेखकः। क्रिडाजीविक्योः इति किम्? ओदनस्य भोजकः।
index: 2.2.17 sutra: नित्यं क्रीडाजीविकयोः
एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायाम् <{SK3286}> इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरि <{SK709}> इति निषेधे प्राप्ते वचनम् ॥
index: 2.2.17 sutra: नित्यं क्रीडाजीविकयोः
नित्यं क्रीडाजीविकयोः - नित्यं क्रीडा । उद्दालकपुष्पभञ्जिकेति । उद्दालकः=श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियां क्तिन्' इत्यधिकारेसंज्ञाया॑मिति भावे ण्वुलित्यर्थः । अत्र कर्मणि षष्ठ्याः समासः । वस्तुतस्तु 'स्त्रियां क्ति' न्नित्यधिकारेधात्वर्थनिर्देशे ण्वु॑लिति भावे ण्वुलित्येव युक्तम् ।संज्ञाया॑मिति त्वधिकरणार्थमिति कृदन्ते वक्ष्यते । तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति । दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः । लिखेः कर्तरि ण्वुल् । अकादेशः । जीविका समासगम्या । ननुषष्ठी॑ति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह — तत्रेति । तत्र=तस्मिन्नुदाहरणद्वये, क्रीडाबाधकेउद्दालकपुष्पभञ्जिके॑त्यत्र विभाषाधिकारात् षष्ठीसमासनिषेधे प्राप्ते, जीविकाबोधकेतु 'दन्तलेखक' इत्यत्र 'तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः ।
index: 2.2.17 sutra: नित्यं क्रीडाजीविकयोः
नित्यं क्रीडाजीविकयोः॥ नेति निवृतमिति। नित्यग्रहणाद्, महाविभाषाधिकाराद्विलक्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वान्नित्यः प्रतिषेधो भविष्यति, किं नित्यग्रहणेन ! तृच् क्रीडाजीविकयोर्नास्तीति। वामनस्तु ठके जीविकार्थऽ इत्यत्र ठक इति किं रमणीयकर्ताऽ इति जीविकायां तृचं प्रत्युदाहरिष्यति। स मन्यते - मा भूत्क्रीडायां तृच्, लक्षणाभावात्, जीविकायां तु ण्वुल्तृचाविति ण्वुलिव तृच् कस्मान्न स्यादिति। अन्ये तु तदनुसारेणेदमप्येवं व्याचक्षते - क्रीडाजीविकयोर्नास्तीति द्व्योर्नास्ति, किन्त्वन्यतरत्रैवेत्यर्थः। अक एवोदाह्रियत इति। उभयत्रेत्यर्थः। उद्दालकपुष्पभञ्जिकेत्यादौ। संज्ञायामिति ण्वुल। नित्यग्रहणमुतरार्थम्। न हि वाक्येन क्रीडाजीविकयोरवगतिरस्ति, क्रियाकारकसम्बन्धमात्रावगमात्॥