2-2-16 कर्तरि च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी न तृजकाभ्यां
index: 2.2.16 sutra: कर्तरि च
कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम्। अकः खल्वपि ओदनस्य भोजकः। सक्तूनां पायकः।
index: 2.2.16 sutra: कर्तरि च
कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥
index: 2.2.16 sutra: कर्तरि च
कर्तरि च - कर्तरि च । कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति । तदाह — कर्तरि षष्ठआ इति । अकेनेति ।तृजकाभ्यां कर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ।स्त्रियां क्ति॑न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप् ।कर्तृकर्मणो॑रिति कर्तरि षष्ठी । अत्र अकस्य कत्र्रर्थकत्वाऽभावात्तृजकाभ्या॑मित्यस्य न प्राप्तिः । ननु पूर्वसूत्रेतृजकाभ्या॑मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन 'रुआष्टां कृष्ण' इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठआ एवाऽप्रसक्त्या तत्समासनिषेधस्यशशशृङ्गेण कण्डूयनं न कर्तव्य॑मितिवदसंभवपराहतत्वादित्यर्थः ।
index: 2.2.16 sutra: कर्तरि च
कर्तरि॥ सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह - होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते॥