2-2-14 कर्मणि च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी न
index: 2.2.14 sutra: कर्मणि च
क्तेन इति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। उभयप्राप्तौ कर्मणि 2.3.66 इति षष्ठ्या इदं ग्रहनम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना।
index: 2.2.14 sutra: कर्मणि च
उभयप्राप्तौ कर्मणि <{SK624}> इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥
index: 2.2.14 sutra: कर्मणि च
कर्मणि च - कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां रुआष्टेत्यादावपि निषेधसिद्धेःतृजकाभ्यां कर्तरी॑ति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य यां षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह — उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्रकर्तृकर्मणोः कृती॑त्येव कर्मणि षष्ठी, न तुउभयप्राप्तौ कर्मणी॑ति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात्, तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः ।शब्दानुशासन॑मित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याऽप्रवृत्तेर्नायं निषेधः, 'कृत्वोऽर्थप्रयोगे' इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षेकर्तृकर्मणोः कृती॑त्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् ।
index: 2.2.14 sutra: कर्मणि च
कर्मणि च ॥ उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्यएत'कर्तरि च' इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम॥