2-2-13 अधिकरणवाचिना च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी न क्तेन
index: 2.2.13 sutra: अधिकरणवाचिना च
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3.4.76 इति वक्ष्यति, तस्य इदं ग्रहणम्। अधिकरणवाचिना क्तेन षष्ठी न समस्यते। इदम् एषां यातम्। इदम् एषाम् भुक्तम्।
index: 2.2.13 sutra: अधिकरणवाचिना च
क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥
index: 2.2.13 sutra: अधिकरणवाचिना च
अधिकरणवाचिना च - अधिकरण । शेषपूरणेन सूत्रं व्याचष्टे-क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति ।क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः॑ इत्यधिकरणे क्तः ।अधिकरणवाचिनश्चे॑ति षष्ठी ।
index: 2.2.13 sutra: अधिकरणवाचिना च
अधिकरणवाचिना च॥ ठधिकरणऽ इत्येव सिद्धे वाचिग्रहणं चिन्त्यप्रयोजनम्, कथम्?'कवृते लिप्सायाम्' 'यद्वृतान्नित्यम्' इति, नायमधिकरणे क्तः, क तर्हि? भावे। किमो वृतं यस्मिन् यदो वृतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः॥