क्तेन च पूजायाम्

2-2-12 क्तेन च पूजायाम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी

Kashika

Up

index: 2.2.12 sutra: क्तेन च पूजायाम्


मतिबुद्धिपूजाऽर्थेभ्यश्च 3.2.188 इति वक्ष्यति, तस्य इदं ग्रहणम्। पूजाग्रहणमुपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायाम् इति किम्? छात्रस्य हसितम् छात्रहसितम्।

Siddhanta Kaumudi

Up

index: 2.2.12 sutra: क्तेन च पूजायाम्


मतिबुद्धि - <{SK3089}> इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥

Balamanorama

Up

index: 2.2.12 sutra: क्तेन च पूजायाम्


क्तेन च पूजायाम् - क्तेन च । अत्र पूजाग्रहणंमतिबुद्धिपूजार्थेभ्यश्चे॑ति सूत्रोपलक्षणं । तदाह — मतिबुद्धीति सूत्रेणेति । राज्ञा मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति 'राजपूजितः' 'राजमतः' 'राजबुद्ध' इति कथं समास इत्यत आह-राजपूजित इत्यादाविति ।

Padamanjari

Up

index: 2.2.12 sutra: क्तेन च पूजायाम्


क्तेन च पूजायाम्॥ तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह - पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्तमानादिति शेषः। राज्ञामिति।'क्तस्य च वर्तमाने' इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः -'कानहं स राममहितः कृतवान्' इति,'मह पूजायाम्' रामस्य महित इत्यर्थः? कश्चिदाह - 'यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा -'पूजितो यः सुरैरपि' इति, तस्याः'कर्तृ करणे कृता बहुलम्' इति समासः' इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः'भतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च वडवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च'पूजितो यः सुरैरपि' इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्। अपर आह -'क्तेन च पूजायाम्' इत्यादिषु कारकषष्ठ।ल एव निषेधः। तदेव तु कर्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे समासान्तोदातत्वमिति। एवं तु यत्'जनिकर्तुः प्रकृतिः' , तत्प्रयोजको हेतुश्चऽ इत्यादावुच्यते -'निपातनात्समासः' इति, तदनुपपन्नम्; शेषषष्ठ।ल एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते॥'क्तेन' इति निवृतम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ठुभयप्राप्तौ कर्मणिऽ इति षष्ठ।ल इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदतेन। साधु खलु पयसः पानं देवदतेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥