2-1-9 सुप् प्रतिना मात्रार्थे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः
सुप् मात्रार्थे प्रतिना सुपा सह समासः
'मात्रा' अस्मिन् अर्थे प्रयुक्तेन 'प्रति' शब्देन सह समर्थं सुबन्तं समस्यते , अव्ययीभावसमासः च भवति ।
The word 'प्रति' when used in the meaning of 'मात्रा' (little, a small amount) undergoes a समास with related सुबन्त, and the समास is called अव्ययीभाव.
मात्रा बिन्दुः, स्तोकम्, अल्पमिति पर्यायाः। मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति। अस्त्यत्र किंचित् शाकम्, शाकप्रति। सूपप्रति। मात्रार्थ इति किम्? वृक्षं प्रति विद्योतते विद्युत्। सुबिति वर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम्॥
शाकस्य लेशः शाकप्रति । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥
<<सुप्प्रतिना मात्राऽर्थे>> - सुप्प्रतिना मात्रार्थे । सुबिति छेदः । मात्रा-लेशः । तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणं संनिहितस्याऽव्ययमित्यस्याननुवृत्त्यर्थं, तद्ध्वनयन्नुदाहरति-शाकस्य लेश इति । अत्रप्रती॑त्यव्ययं मात्रार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति । अत्र प्रतेर्मात्रार्थकत्वाऽभावान्न तेन समासः । न चलक्षणेत्थ॑मिति कर्मप्रवचनीयत्वविधानसामर्थ्यादेवाऽत्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठआ वा लुकि अविशेषात्, सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्,वृक्षं प्रति सिञ्चती॑त्यादौउपसर्गात्सुनोती॑ति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः ।
अस्त्यत्र किचित्सूप इति किञ्चिदित्यव्ययं सूप इति पुंल्लिङ्गेन समानाधिकरणम्। सुबिति वर्तमान इति।'सुबामन्त्रिते' इत्यतः। अव्ययनिवृत्यर्थमिति। पूर्वहि सुब्ग्रहणमव्ययग्रहणेन सह विग्रहः कृतः। स्वरादीनां च दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषयो सत्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुध्देत्यव्यस्यैव समासः स्यात्॥